निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः । सः कुटीरः कस्यचित् चर्म-कारस्य । महात्मा तम् उपसर्प्य अपृच्छत् – “आर्य ! किम् अत्र पानाय जलं लभ्येत ?” इति । महात्मानम् उपस्थितं दृष्ट्वा सः चर्मकारः नितरां सन्तुष्टः । सः उत्थाय अन्तः गत्वा जलम् आनीय महात्मने दातुम् उद्यतः । तावता तेन स्वस्य चर्मकारकुलत्वं स्मृतम् । अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान् । “किं महोदय ! किमर्थं जलदाने एवं सङ्कोचः ?” – सः महात्मा पृष्टवान् । तदा चर्मकारः अवदत् – “श्रीमन् ! अहम् अस्मि निम्नकुलीयः । मया भवते जलं यत् दीयेत तत् भवेत् पापाय” इति । “पापपुण्यादिविषये भवतः महती चिन्ता !” इति हसन् उक्तवान् सः महात्मा । ततः द्वित्राणि पदानि अग्रे निक्षिप्य सः चर्मकारस्य स्कन्धे हस्तं संस्थाप्य अवदत् – “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम् । तस्मात् यदि पापं प्राप्येत तर्हि तत् तु मया प्राप्येत । अतः इदानीं जलदाने न कापि आपत्तिः । कृपया जलं दीयताम्” इति । चर्मकारः तस्मै जलं दत्तवान् । जलं पीत्वा सः महात्मा उक्तवान् – “भ्रातः ! भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः । तत्र श्रद्धा न करणीया । अहम् इदानीं बुभुक्षितः अस्मि अपि । यदि अद्य भवद्गृहे भोजनं प्राप्येत तर्हि वरं स्यात्” इति । “भवान् मम गृहे भोजनं कर्तुं सज्जः यत् तत् तु मम सौभाग्याय एव” इति सहर्षम् उक्त्वा पाकसज्जीकरणाय पत्नीं सूचयितुं सः चर्मकारः अन्तः गतवान् । "महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम्" इति कः कस्मै उक्तवान् ?
इस प्रश्न में, "महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम्" यह वाक्य चर्मकार द्वारा महात्मा को कहा गया है। इसका अर्थ है कि चर्मकार यह स्पष्ट कर रहा है कि उसने महात्मा को स्पर्श किया है, लेकिन महात्मा ने उसे नहीं छुआ है। Option 3 (महात्मा चर्मकाराय) सही उत्तर है क्योंकि यह वाक्य चर्मकार द्वारा महात्मा को संबोधित करते हुए कहा गया है। चर्मकार महात्मा को यह…Read More
Source :
Source :
Source :
Source :