Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः पिपासया आकुलाः भूत्वा यमुनाजलम् अपिबन् । ते मूर्छिताः अभवन् । श्रीकृष्णः तान् मूर्छितान् दृष्ट्वा व्याकुलः अभवत् । वस्तुतः यमुनाजले कालियनागस्य कुण्डम् आसीत् । तेन यमुनाजलं विषज्वालाभिः विषाक्तं जातम् । अनेके खगाः पशवः च तत् जलं पीत्वा मृत्युं प्राप्ताः । वायुः अपि तेन विषयुक्तः अभवत् । वृक्षाः तेन वायुना शुष्काः जाताः । यदा श्रीकृष्णः एतत् सर्वम् अपश्यत् सः एकं वृक्षम् आरोहत् । तस्मात् वृक्षात् सः विषयुक्ते जले अकूर्दत । कालियनागस्य एकाधिकशतं फणाः आसन् । सः तान् प्रसार्य कृष्णं प्रहर्तुम् ऐच्छत् । श्रीकृष्णः तस्य फणान् आरुह्य अनृत्यत् । कालियनागस्य फणाः शनैः शनैः छिन्नाः भिन्नाः अभवन् । मुखात् रक्तं प्रावहत् । सः हस्तौ संयोज्य अवदत् — "भगवन् ! वयं नागाः जन्मतः एव विषयुक्ताः । अयं न मम अपराधः । भवान् एव सर्वप्राणिनां प्रभुः । अनुग्रहं करोतु निग्रहं वा ।" एवं निग्रहात् परम् अनुग्रहं कुर्वन् श्रीकृष्णः अवदत् – रे दुष्ट ! किं न जानासि त्वं यत् तव कारणात् सर्वं जलं विषयुक्तं भवति । इतः कुत्रापि अन्यत्र गच्छ इति । सर्प: ततः पलायितः । एवं च यमुना विषरहिता जाता । 'गच्छ' कस्य लकारस्य, पुरुषस्य वचनस्य च रूपम् अस्ति ?

1
गच्छ् + लोट् उत्तमपुरुषः + एकवचनम्
2
गम् + लोट् मध्यमपुरुषः + एकवचनम्
3
गच्छ् + लोट् मध्यमपुरुषः + एकवचनम्
4
गम् + विधिलिङ् मध्यमपुरुषः + द्विवचन्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: क्रियापद विज्ञानम्
Topic: लकार
Correct Answer
Option B
Explanation

प्रश्न में दिए गए शब्द 'गच्छ' का विश्लेषण करते हुए, यह जानना आवश्यक है कि यह किस लकार, पुरुष और वचन का रूप है। 1. Option 1: गच्छ् + लोट् उत्तमपुरुषः + एकवचनम् - 'गच्छ' शब्द का रूप 'लोट्' लकार में है, लेकिन यह उत्तमपुरुष का रूप नहीं है। उत्तमपुरुष में 'गच्छामि' जैसे रूप होते हैं। अतः यह विकल्प गलत है। 2. Option 2: गम् + लोट् मध्यमपुरुषः + एकवचनम्…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धाऽरण्यं मृगास्तथा ॥ 1 ॥ आचारः कुलमाख्याति देशम्…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 2
Easy

Source :

क्रियापद विज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
क्रियापद विज्ञानम्
Topic :
लकार
Question 3
Easy

Source :

क्रियापद विज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति…
Chapter :
क्रियापद विज्ञानम्
Topic :
लकार
Question 4
Easy

Source :

क्रियापद विज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
क्रियापद विज्ञानम्
Topic :
लकार