Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम । अन्तर्जालस्य प्रयोगं विना एतन्न सम्भवति । अद्यत्वे अन्तर्जालस्य कृपया 'गूगल-फेसबुक-व्हाट्सएप्' इत्यादीनि अनेकानि उपकरणानि उपलभ्यानि सन्ति । अधुना तु एतानि सर्वाणि उपकरणानि चल-दूरभाषयन्त्रेऽपि विद्यमानानि सन्ति । गूगलादि उपकरणानां प्रयोगेन वयं कस्मिन्नपि विषये सर्वं ज्ञातुं शक्नुमः । अस्मिन् शब्दकोशानां, नवीन-शोध-कार्याणां सूचनानां च भण्डारः वर्तते । अन्तर्जालस्य सहायतया वयं स्थानात् स्थानं धनान्तरणं कुर्याम । समाचाराणां सन्देशानां च आदानं प्रदानं च कुर्मः । गृहादेव कार्यालयस्य कार्याणि सम्पादयामः । विपणिं गन्तुं विना वस्तूनि क्रीणामः विक्रीणामः च । अद्यत्वे तु एतादृशी स्थितिरस्ति यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्यं कर्तुं सक्षमाः न स्मः । कालान्तरे निःसंशयः वयं सर्वे अस्मिन्नेव निर्भराः भविष्यामः । एतस्य ज्ञानं विना गतिर्न भविष्यति । परन्तु एतेषां उपकरणानां प्रयोगेण वयं निष्क्रियाः भवामः । अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः । परिवारजनैः सह अपि फेसबुक व्हाट्सएप् च इत्याभ्यां माध्यमाभ्यां वार्तालापं कुर्मः । परस्पर-सम्बन्धानाम् अद्य तु किमपि महत्त्वं नास्ति । एतेषां उपकरणानां सततप्रयोगेण नेत्रदोषाः जायन्ते, पृष्ठे पीडा भवति, स्मृतेः ह्रासः दृश्यते, कार्येषु एकाग्रता नश्यति, सम्प्रेषणक्षमतायाः विकासः अवरुध्यते आत्मसम्मानं च क्षरति । यथा अन्येषां वस्तूनां प्रयोगेण लाभाः हानयश्च भवन्ति, तथैव सामाजिक-सञ्चार-माध्यमस्य प्रयोगेण अपि भवन्ति । अतएव अस्माभिः अस्य सदुपयोगाः ग्रहणीयाः दुरुपयोगः च हातव्याः । अद्यतने अल्पमपि ज्ञानाय वयं कस्य प्रयोगः न कुर्मः ?

1
स्वबुद्धेः
2
पत्रस्य
3
नृत्यस्य
4
भोजनस्य
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: अव्यय प्रयोगः
Topic: अव्ययम्
Correct Answer
Option A
Explanation

सही उत्तर विकल्प 1 "स्वबुद्धेः" है। गद्यांश में यह स्पष्ट किया गया है कि आजकल लोग अपने ज्ञान और बुद्धि का उपयोग करने के बजाय गूगल जैसे उपकरणों पर निर्भर हो गए हैं। लेखक ने यह उल्लेख किया है कि "अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः।" इसका अर्थ है कि लोग अपने ज्ञान का उपयोग नहीं करते, बल्कि गूगल पर निर्भर रहते हैं। इसलिए, यह…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अव्यय प्रयोगः
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत् । तस्यां च…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 2
Easy

Source :

अव्यय प्रयोगः
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 3
Easy

Source :

अव्यय प्रयोगः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति । पृथिवी,…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 4
Easy

Source :

वाक्यप्रयोग
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – कस्मिंश्चिन्नगरे मन्थरको नाम तन्तुवायः प्रतिवसति स्म । कदाचित् तस्य सर्वाणि उपकरणानि भग्नानि ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग