Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत् । तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत् । तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् – ‘भद्रे, किमर्थं विलपसि ?’ इति । चटकावदत् – ‘दुष्टेनैकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत् ।’ ततः काष्ठकूटः तां बीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्तां श्रुत्वा मक्षिकावदत् – ‘ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः ।’ तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम् । मेघनादः अवदत् – ‘यथाहं कथयामि तथा कुरुतम् । मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य नयने स्फोटयिष्यति । एवं सः गजः अन्धः भविष्यति । तृषार्तः सः जलाशयं गमिष्यति । मार्गे महान् गर्तः अस्ति । तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि । मम शब्देन तं गर्तं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च ।’ अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च । तथा चोक्तम् – ‘बहूनामप्यसाराणां समवायो हि दुर्जयः ।’ 'अन्तिके' इत्यस्य शब्दस्य निम्नलिखितेषु कोऽर्थः ?

1
मार्गे
2
सायंकाले
3
समीपम्
4
वृत्तान्तः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: अव्यय प्रयोगः
Topic: अव्ययम्
Correct Answer
Option C
Explanation

'अन्तिके' इत्यस्य शब्दस्य अर्थः 'समीपम्' इति विकल्पे 3 निर्दिष्टः उचितः उत्तरः अस्ति। संस्कृत भाषा में 'अन्तिके' शब्द का अर्थ 'समीप' या 'निकट' होता है। इस गद्यांश में 'अन्तिके' शब्द का प्रयोग उस स्थान के निकटता को दर्शाने के लिए किया गया है जहाँ मेघनाद मण्डूक गज को गर्त में गिराने के लिए खड़ा होगा। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. मार्गे: 'मार्गे' का अर्थ 'रास्ते में' होता है।…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 2
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 3
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषुः उचिततमम् उत्तरं चिनुत । नर्मदातीरे एकः वृक्षः आसीत् । तत्र स्वपरिश्रमेण निर्मितेषु नीडेषु खगाः सुखेन वसन्ति स्म ।…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 4
Easy

Source :

अव्यय प्रयोगः
अशोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। परोषामुपकारः परोपकारः कथ्यते । य: मानवः स्वार्थं विना परोषामुपकारं करोति, सः परोपकारीति कथ्यते। तस्य तच्चकार्यं परोपकार इति…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्