Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति । पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि । तान्येव मिलित्वा पृथक्तया वाऽस्माक पर्यावरणं रचयन्ति । आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम् । यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ । परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति । प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ? अत एव अस्माभिः प्रकृतिः रक्षणीया । तेन च पर्यावरणं रक्षितं भविष्यति । प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म । यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म । तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति । सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति शीतलन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति । परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति । स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति । जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति । तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति । नदीजलमपि तत्सर्वथाऽपेयं जायते । मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति । तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति । शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते । एवं हि स्वार्थान्धमानवैः विकृतिम् उपगता प्रकृतिः एव सर्वेषां विनाशकर्त्री भवति । विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति । तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति । धर्मो रक्षति रक्षितः इत्यार्षवचनम् । पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । अत एव वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतोरूपेण अङ्गीकृतम् । कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च रक्षणीयाः । प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र नास्ति संशयः ।

‘धर्मस्यैव’ इत्यस्मिन् पदे सन्धिनिर्देशं कुरुत -

1
गुणसन्धिः
2
वृद्धिसन्धिः
3
हल्सन्धिः
4
दीर्घसन्धिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: सन्धि विचारः
Topic: सन्धि
Correct Answer
Option B
Explanation

सन्धि के प्रकारों में से वृद्धिसन्धि का चयन सही है क्योंकि 'धर्मस्यैव' में 'धर्मस्य' और 'एव' के बीच में सन्धि होती है। जब 'अ' या 'आ' से समाप्त होने वाले शब्द के बाद 'ए' या 'ओ' से शुरू होने वाला शब्द आता है, तो वहाँ वृद्धिसन्धि होती है। इस स्थिति में 'अ' और 'ए' के मिलने से 'ऐ' बनता है, जो वृद्धिसन्धि का उदाहरण है। अब अन्य विकल्पों को देखते…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत – उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 4
Easy

Source :

CTET 2021
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
समास परिचयः
Topic :
समास