Question
Easy

अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च तत्र शयने क्वचिद् भ्राम्यन् अग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच – “भो अग्निमुख ! कुतस्त्वमत्रानुचितस्थाने समायातः ? तद्यावद् न कश्चिद् पश्यति, तावच्छीघ्रं गम्यताम्” इति । स आह – “भगवति ! गृहागतस्य असाधोरपि नैतद्युज्यते वक्तुम् । अपरं मयाऽनेक मानुषाणां अनेकविधानि रुधिराण्यास्वादितानि आहारदोषात् कटुतिक्तकषायाऽम्लरसास्वादानि । न च मया कदाचितम् धुरक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि, तदस्य नृपतेः विविधव्यञ्जनान्ज पानचोष्यलेह्यस्वादाहारवशात् शरीरे यन्मिष्टं रक्तं सञ्जातं, तदास्वादनेन सौख्यं संपादयामि जिह्वायाः” इति तच्ध्रुत्वा मन्दविसर्पिणी आह, “भो मत्कुण ! अहमस्य नृपतेर्निद्रावशं गतस्य रक्तम् आस्वादयामि । पुनः त्वम् अग्निमुखः चपलश्च । तद्यदि मया सह रक्तपानं करोषि, तत्तिष्ठ, अभीष्टतरं रक्तमास्वादय, सोऽब्रवीत- “भगवति ! एवं करिष्यामि । यावच्वं नास्वादयसि प्रथमं नृपरक्तं, तावन्मम देवगुरुकृतः शपथः स्यात् यदि तदास्वादयामि।” एवं तयोः परस्परं वदतोः, स राजा तच्छयनमासाद्य प्रसुप्तः । अथाऽसौ मत्कुणः जिह्वालौल्यात् जाग्रतमपि तं महीपतिम् अदशत् । अथाऽसौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः, प्राह च, अहो, ज्ञायतामत्र प्रच्छदनपटे मत्कुणो यूका वा नूनं तिष्ठति, येनाहं दष्टः” । इति । अथ ये कञ्चुकिनः तत्र स्थिताः ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षाचक्रुः । अत्रान्तरे स मत्कुणः चापल्यात खट्वान्तं प्रविष्टः । सा मन्दविसर्पिण्यपि वस्त्रसंध्यन्तर्गता तैर्दृष्टा, व्यापादिता च । ‘दृष्टवन्तः’ इति अर्थे प्रयुक्तं क्रियापदं चित्वा लिखत।

1
वीक्षाचकार
2
गतवन्तः
3
हसितवन्तः
4
वीक्षाचक्रुः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: क्रियापद विज्ञानम्
Topic: क्रियापद चयन
Correct Answer
Option D
Explanation

Option 4 "वीक्षाचक्रुः" सही उत्तर है क्योंकि यह शब्द उस क्रिया को दर्शाता है जिसमें किसी ने ध्यानपूर्वक देखा या निरीक्षण किया। गद्यांश में वर्णित स्थिति में, मत्कुण ने मन्दविसर्पिणी को देखा और उसके प्रति अपनी प्रतिक्रिया व्यक्त की। यहाँ "दृष्टवन्तः" का अर्थ है "देखा" और "वीक्षाचक्रुः" इस क्रिया को सही रूप में व्यक्त करता है, क्योंकि यह दर्शाता है कि उसने ध्यान से देखा और निरीक्षण किया। अब अन्य…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 2
Easy

Source :

क्रियापद विज्ञानम्
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उचितं विकल्पं चित्वा देयानि । आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत् । अस्य पितुः नाम शिवगुरुः आसीत् । अस्य…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 3
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत् । तस्यां च…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 4
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्, सत्सङ्गतिः…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन