Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते । एवं सः सुखेन _ नयति स्म-अत्र रिक्तस्थानं पूरयत ।

1
विद्याम्
2
नौकाम्
3
वायुयानम्
4
जीवनम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: क्रियापद विज्ञानम्
Topic: क्रियापद चयन
Correct Answer
Option D
Explanation

सत्यप्रियः नामकः काष्ठिकः एकस्मिन् ग्रामे वसति स्म, जो प्रतिदिन वनं गत्वा काष्ठानि छिन्दति स्म और तानि काष्ठानि नगरे विक्रीय स्वजीविकोपार्जनं करोति स्म। इस प्रकार वह सुखपूर्वक जीवन व्यतीत करता था। गद्यांश में यह स्पष्ट किया गया है कि सत्यप्रियः अपने दैनिक कार्यों के माध्यम से जीवन यापन करता था। अब, प्रश्न में रिक्त स्थान को भरने के लिए सही विकल्प चुनना है: "एवं सः सुखेन _ नयति स्म।" सही उत्तर…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

क्रियापद विज्ञानम्
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 2
Easy

Source :

क्रियापद विज्ञानम्
अशोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। परोषामुपकारः परोपकारः कथ्यते । य: मानवः स्वार्थं विना परोषामुपकारं करोति, सः परोपकारीति कथ्यते। तस्य तच्चकार्यं परोपकार इति…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 3
Easy

Source :

क्रियापद विज्ञानम्
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उचितं विकल्पं चित्वा देयानि । आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत् । अस्य पितुः नाम शिवगुरुः आसीत् । अस्य…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 4
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन