निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं करोति स्म । एकदा सर्वे पशवः सिंहस्य समीपम् आगच्छन् अवदन् च – मृगेन्द्र ! त्वं किमर्थं सर्वदा पशूनां वधं करोषि ? प्रसीद । वयं स्वयं तव भोजनाय प्रतिदिनम् एकम् पशुं प्रेषयिष्यामः । ततः सिंहः अवदत् – यदि यूयम् एवम् इच्छथ, तर्हि भवतु तत् । ततः प्रभृति एकः पशुः प्रतिदिनं क्रमेण सिंहस्य समीपं गच्छति स्म । एकदा एकस्य शशकस्य वारः समायातः । सः अचिन्तयत् – यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि । सः अतिविलम्बेन सिंहस्य समीपम् अगच्छत् । तत्र सिंहः तु क्षुधया पीडितः आसीत् । अतिक्रुद्वः सः शशकम् अपृच्छत् – त्वं कथं विलम्बात् समायातः ? शशकः सविनयम् अवदत् महाराज ! न मम दोषः । मार्गे अपरः सिंहः आसीत्, सः माम् अपश्यत् अवदत् च “अहम् अस्य वनस्य राजा । अहं त्वां भक्षयिष्यामि ।” अहं तम् अवदम् – अस्य वनस्य राजा तु दुर्दान्तः नाम सिंहः अस्ति । सः अद्य मां भक्षयिष्यति । अहम् अधुना तस्य भोजनाय गच्छामि । अहम् अत्र पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगच्छम् । एतत् श्रुत्वा सः सिंह अतिक्रुद्वः अभवत् । दुर्दान्तः क्रोधेन अवदत् – रे शठ ! कुत्र अस्ति सः अपरः सिंहः ? तं सत्वरं मां दर्शय । शशकः सिंहम् एकस्य गभीरस्य कूपस्य समीपम् अनयत् अकथयत् च – पश्यतु महाराज ! अस्मिन् कूपे एव सः सिंहः वसति । तस्य कूपस्य जले दुर्दान्तः स्वप्रतिबिम्बम् अपश्यत् अवदत् च एषः एव सः सिंहः? क्रोधेन परिपूर्णः सः दुर्दान्तः आत्मानं कूपे अक्षिपत् पञ्चत्वं च अगच्छत् । उक्तं हि यथा – बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ‘इदानीम्’ इत्यस्मिन् अर्थे गद्यांशे कः शब्दः प्रयुक्तः ?
गद्यांश में 'इदानीम्' शब्द का अर्थ 'अभी' या 'अब' होता है। इस अर्थ में गद्यांश में 'अधुना' शब्द का प्रयोग किया गया है। आइए अब हम समझते हैं कि क्यों 'अधुना' सही विकल्प है और अन्य विकल्प क्यों गलत हैं: 1. एकदा: इसका अर्थ 'एक बार' होता है। यह शब्द गद्यांश में उस समय को दर्शाने के लिए प्रयोग किया गया है जब शशक का सिंह के पास जाने का…Read More
Source :
Source :
Source :
Source :