अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः जायते । चित्रकूटे सघनानि वनानि सन्ति । अत्र बहवः निर्झराः सन्ति । सर्वत्रापि हरितिमा राजते । चित्रकूटस्य धार्मिकं सांस्कृतिकं च महत्त्वं विद्यते । कथ्यते यत् सीतालक्ष्मणाभ्यां सह वनवासकाले श्रीरामः एकादशवर्षाणि यावत् चित्रकूटे एवं निवासं कृतवान् । महर्षिः अत्रिः साध्वी अनुसूया च अत्रैव तपस्यां कृत्वा आत्मज्ञानम् अलभेताम् । अत्र अनेकानि दर्शनीयानि स्थलानि सन्ति । रामघट्टः - मन्दाकिन्याः तटे रामघट्टः अस्ति । अत्र प्रायेण तीर्थयात्रिणां सम्मर्दः भवति । सायंकाले मन्दाकिन्याः नीराजनसमये मनोरमदृश्यं भवति । रामघट्टात् नातिदूरमेव जानकीकुण्डम् अस्ति । वनवासे सीता अत्रैव स्नानं करोति स्म । सघनवनमध्ये अनुसूयाश्रमः विद्यते । अत्र पक्षिणां कलरवः निर्झरध्वनिः शीतलवायुश्च मनांसि रञ्जयन्ति । एतदेव मन्दाकिन्याः उद्गमस्थलम् । जानकी कुण्डसमीपे एव विशाला शिला दर्शनीया वर्तते । चित्रकूटतः पञ्चक्रोशदूरम् नयनाभिरामं सौन्दर्ययुक्तं गुप्तगोदावरीस्थलं वर्तते । अत्र निरन्तरं जलं प्रवहति । तत्रैव हनुमानधारास्थलं वर्तते । अत्र उच्चस्थलात् जलं पतति । का नाम साध्वी तपस्यां कृत्वा आत्मज्ञानम् अलभत् ?
सही उत्तर विकल्प 4, अनुसूया है। चित्रकूट के संदर्भ में दिए गए गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि महर्षि अत्रि और साध्वी अनुसूया ने वहाँ तपस्या की थी और आत्मज्ञान प्राप्त किया था। यह जानकारी गद्यांश में सीधे तौर पर दी गई है, जिससे यह स्पष्ट होता है कि अनुसूया ही वह साध्वी हैं जिन्होंने तपस्या करके आत्मज्ञान प्राप्त किया। अब अन्य विकल्पों की बात करें:…Read More
Source :
Source :
Source :
Source :