निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत् । तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत् । तस्याः विलापं श्रुत्वा काष्ठकूटः नाम खगः दुःखेन ताम् अपृच्छत् – ‘भद्रे, किमर्थं विलपसि ?’ इति । चटकावदत् – ‘दुष्टेनैकेन गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत् ।’ ततः काष्ठकूटः तां बीणारवा-नाम्न्याः मक्षिकायाः समीपम् अनयत् । तयोः वार्तां श्रुत्वा मक्षिकावदत् – ‘ममापि मित्रं मण्डूकः मेघनादः अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्यामः ।’ तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम् । मेघनादः अवदत् – ‘यथाहं कथयामि तथा कुरुतम् । मक्षिके ! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति । तदा काष्ठकूटः चञ्च्वा तस्य नयने स्फोटयिष्यति । एवं सः गजः अन्धः भविष्यति । तृषार्तः सः जलाशयं गमिष्यति । मार्गे महान् गर्तः अस्ति । तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि । मम शब्देन तं गर्तं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च ।’ अथ तथाकृते सः गजः मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतितः मृतः च । तथा चोक्तम् – ‘बहूनामप्यसाराणां समवायो हि दुर्जयः ।’ काष्ठकूट: चटकां कस्य समीपम् अनयत् ।
काष्ठकूटः चटकां मक्षिकायाः समीपम् अनयत। इस गद्यांश में, चटक की दुर्दशा के बारे में बताया गया है, जिसमें काष्ठकूट ने चटक को मक्षिका के पास ले जाकर उसकी मदद करने का निर्णय लिया। मक्षिका ने चटक की समस्या को सुनकर मेघनाद नामक मेंढक की मदद करने का सुझाव दिया। इसलिए, काष्ठकूट ने चटक को मक्षिका के पास ले जाकर यह सुनिश्चित किया कि वे मिलकर मेघनाद से सहायता प्राप्त करें।…Read More
Source :
Source :
Source :
Source :