निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – विश्वविद्यालयस्य कश्चित् प्राध्यापकः जलविहाराय नावम् आरूढः । नौकया जलविहारस्य तस्य प्रथमः अवसरः आसीत् । तत्र मनोरमान् दृश्यान् दृष्ट्वा सः नाविकम् अपृच्छत् – भो नाविक ! किं भवता कदापि गणितं पठितम् ? नाविकः – न पठितम् महोदय । प्राध्यापकः – किं गणितं पठितुं विद्यालयं न गतवान् । नूनं भवतः जीवनस्य चतुर्थांशः व्यर्थः अभवत् । किं भवता रसायनशास्त्रं भौतिकशास्त्रं वा पठितम् ? नाविकः अवदत् – ईदृशं मे भाग्यं कुतः ? यदहं भौतिकशास्त्रं रसायनशास्त्रं वा पठेयम् । प्राध्यापकः – नूनं भवतः जीवनस्य अर्धांशः व्यर्थः अभवत् । वद वद त्वया आंग्लभाषा तु पठिता एव । नाविकः (ग्लानिम् अनुभवन) – महाशय ! नाहं मात्रा पित्रा वा विद्यालये प्रेषितः । तर्हि कुतः पठेयम् ? प्राध्यापकः – तर्हि तव जीवनस्य त्रयो भागाः व्यर्थाः अभवन् । अत्रान्तरे नदे जलावर्तनं समायातम् । तदा लहरीणां वेगेन नौः अकम्पत् । तयोः पश्यत एव नौका जलेन पूरिता जाता । नाविकः प्राध्यापकम् अपृच्छत् – महोदय ! किं भवान् तर्तुं जानाति ? नौकां जलपूरितां दृष्ट्वा भीतः प्राध्यापकः अवदत् – अहं तु तर्तुं न जानामि । नाविकः अवोचत् – यदि भवान् तर्तुं न जानाति तर्हि भवतः सर्वं जीवनं वृथा जातम् । अहं तु बाहुभ्यां नदं तीर्त्वा पारं गच्छामि । ‘कदापि’ इति पदस्य सन्धिविच्छेदः भवति
‘कदापि’ इति पदस्य सन्धिविच्छेदः ‘कदा + अपि’ इति भवति। 1. क + दापि: यह विकल्प गलत है क्योंकि 'क' और 'दापि' के बीच कोई सन्धि नहीं बनती। 'क' एक स्वतंत्र शब्द नहीं है जो 'दापि' से जुड़ सके। 2. कद + आपि: यह विकल्प भी गलत है क्योंकि 'कद' और 'आपि' के बीच सन्धि नियमों के अनुसार कोई सन्धि नहीं बनती। 'कद' और 'आपि' का संयोजन 'कदापि' नहीं बनाता। 3.…Read More
Source :
Source :
Source :
Source :