अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति । शरीरेणैव सर्वाणि शुभानि कार्याणि साधयितुं शक्यन्ते । शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः - सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते उत्थातव्यम् । नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धिः कर्तव्या । प्रत्येकं दन्तं क्रमशः निर्मलं कृत्वा जलेन मुखं धावनीयम् । एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति । शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धिः हितकरी भवति । ततः सर्वस्मिन् शरीरे तैलमर्दनं विधेयम् । तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते सौन्दर्यं च वर्धते । पुनः व्यायामः कर्तव्यः । व्यायामेन सम्यक् रक्तसञ्चारः, पेशीनां पुष्टिः, क्षुधावृद्धिः, शरीरे च स्फूर्तिः जायते । व्यायामानन्तरं किञ्चित्कालं स्थित्वा स्नानमपि विधेयम् । स्नानं प्रायः शीतलेन वारिणा कर्तव्यम्; परन्तु शिथिले शरीरे कदुष्णेन वारिणा स्नानं हितकरं भवति । स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि । मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलेपः कृतः स्यात् । स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम् । यः यथासमयं भक्षयति, परिमितं च, सः कदापि जठररोगेण पीडितो न भवति । भोजनं सात्त्विकं, शुद्धं, पुष्टिकरं च स्यात् तच्च शान्तमनसा भोक्तव्यम् । यथा स्वच्छता, व्यायामः, भोजनं च स्वास्थ्याय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति । ऋते विश्रामात् कश्चिदपि स्वस्थः स्थातुं न शक्नोति । विश्रामेण श्रमोऽपनीयते, तस्मात् विश्रामः स्वास्थ्याय परमावश्यकः । ये परीक्षा-दिनेषु निरन्तरं पठन्ति, न च विश्राम्यन्ति, ते विक्षिप्ताः जायन्ते, सर्वं पठितं च विस्मरन्ति । एवं च रुग्णीभूय परीक्षायामनुत्तीर्णाः जायन्ते । तस्माद्विश्रामस्यापि महत्यावश्यकता वर्तते । आलस्यं विश्रामस्य पर्यायो नास्ति । आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मणः करणाय नवशक्त्याः अर्जन-साधनम् भवति । तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्रामः कर्तव्यः । कर्मण्यनिच्छा-इत्यस्मिन् पदे सम्यक् सन्धिविच्छेदः चिनुत।
विकल्प 3 "कर्मणि+अनिच्छा" सही उत्तर है क्योंकि इस विकल्प में शब्द का सही सन्धिविच्छेद किया गया है। "कर्मण्यनिच्छा" शब्द का अर्थ है "कर्म करने की इच्छा न होना"। यहाँ "कर्मणि" का अर्थ है "कर्म में" और "अनिच्छा" का अर्थ है "इच्छा न होना"। इस प्रकार, यह संयोजन सही ढंग से इस विचार को व्यक्त करता है कि व्यक्ति को कर्म करने की इच्छा नहीं है। अब अन्य विकल्पों की गलतियों…Read More
Source :
Source :
Source :
Source :