Question
Easy

निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति । अतः एव ते भारतं परित्यज्य अमेरिकादिदेशेषु स्थातुकामाः भवन्ति । एवं माननेन ते स्वं प्रगतं मन्यन्ते । इमे भारतीयाः तुच्छाः मलिनाः असभ्याः अप्रगताः कूपमण्डूकबुद्धयः च सन्ति इति अन्ये विदेशीयाः मन्येरन् चेत् ते क्षन्तव्याः स्युः । परं भारतीयाः एव स्वदेशं निन्देयुः चेत् ते कथं क्षमार्हाः भवेयुः ? अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला । भारतीयेन अनुरागगोस्वामिना सा उदूढा । अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति । सा भारतम् अधिकृत्य इत्थम् अभिदधाति – “भारतस्य जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि । विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि । एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम् ? कथं न अन्ये देशाः भारते रुचिं वहन्ति ? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति ?” “अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति – “करोलिने ! इतोऽपि किं त्वं भारते निवससि ! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना ? अहो ते सहिष्णुता ! तत्र तव का सुरक्षा ? इतोऽपि त्वयि बालात्कारः किं न जातः ?” इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति । बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति । बाढम् उद्वेजिता अहम् एतस्य श्रवणात् । मया युरोपदेशाः दृष्टाः । अमेरिकादेशोऽपि दृष्टः । भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि । युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव । अतः भारते वैविध्यमस्ति । मया प्रतिज्ञातम् अस्ति यत् भारतविषयिणीम् इमां विप्रतिपत्तिं निराकर्तुं जगते भारतस्य सम्यक् परिचयः देयः इति । करोलिना इति नामधेया महिला कस्मात् देशात् आगता ?

1
चीनदेशात्
2
होलण्डदेशात्
3
पोलण्डदेशात्
4
जापानदेशात्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option C
Explanation

गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि करोलिना नामक महिला पोलण्ड देश से आई है। यह जानकारी गद्यांश के इस वाक्य में दी गई है: "अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला।" इसका अर्थ है कि करोलिना पोलैंड की निवासी है। अब अन्य विकल्पों की बात करें: 1. चीनदेशात्: गद्यांश में कहीं भी चीन का उल्लेख नहीं है, इसलिए यह विकल्प गलत है। 2. होलण्डदेशात्: गद्यांश में होलण्ड का…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

शुद्धि विचारः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – साम्प्रतिकं युगं वैज्ञानिकं युगं वर्तते । अद्य मानवः तथैव नास्ति यथा शतं वर्षाणि…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

शुद्धि विचारः
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – भारतदेशस्य उत्तरस्यां दिशि हिमालयो नाम पर्वतरा‍जः वर्तते । अस्य तुङ्गानि शिखराणि सर्वदा हिमेनाच्छादितानि भवन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

शुद्धि विचारः
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

शुद्धि विचारः
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना