Question
Easy

निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति । अतः एव ते भारतं परित्यज्य अमेरिकादिदेशेषु स्थातुकामाः भवन्ति । एवं माननेन ते स्वं प्रगतं मन्यन्ते । इमे भारतीयाः तुच्छाः मलिनाः असभ्याः अप्रगताः कूपमण्डूकबुद्धयः च सन्ति इति अन्ये विदेशीयाः मन्येरन् चेत् ते क्षन्तव्याः स्युः । परं भारतीयाः एव स्वदेशं निन्देयुः चेत् ते कथं क्षमार्हाः भवेयुः ? अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला । भारतीयेन अनुरागगोस्वामिना सा उदूढा । अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति । सा भारतम् अधिकृत्य इत्थम् अभिदधाति – “भारतस्य जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि । विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि । एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम् ? कथं न अन्ये देशाः भारते रुचिं वहन्ति ? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति ?” “अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति – “करोलिने ! इतोऽपि किं त्वं भारते निवससि ! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना ? अहो ते सहिष्णुता ! तत्र तव का सुरक्षा ? इतोऽपि त्वयि बालात्कारः किं न जातः ?” इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति । बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति । बाढम् उद्वेजिता अहम् एतस्य श्रवणात् । मया युरोपदेशाः दृष्टाः । अमेरिकादेशोऽपि दृष्टः । भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि । युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव । अतः भारते वैविध्यमस्ति । मया प्रतिज्ञातम् अस्ति यत् भारतविषयिणीम् इमां विप्रतिपत्तिं निराकर्तुं जगते भारतस्य सम्यक् परिचयः देयः इति । करोलिने ! इतोऽपि किं त्वं भारते निवससि ? इति के पृच्छन्ति करोलिनाम् ?

1
यूरोपदेशीयाः
2
भारतदेशीयाः
3
करोलिनायाः पतिः
4
करोलिनायाः पिता
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्य परिवर्तन
Topic: वाक्येषु प्रश्ननिर्माणम्
Correct Answer
Option A
Explanation

करोलिन के बारे में पूछे गए प्रश्न का उत्तर विकल्प 1 "यूरोपदेशीयाः" है। इसका कारण यह है कि प्रश्न में यह उल्लेखित है कि जब करोलिन यूरोप के देशों में यात्रा करती है, तब वहां के लोग उसे आश्चर्यचकित होकर पूछते हैं कि वह भारत में क्यों रह रही है। यह स्पष्ट करता है कि पूछने वाले लोग यूरोप के निवासी हैं, जो करोलिन की भारतीय निवास के बारे में…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 2
Easy

Source :

वाक्य परिवर्तन
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 3
Easy

Source :

वाक्य परिवर्तन
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 4
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्