अशोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। परोषामुपकारः परोपकारः कथ्यते । य: मानवः स्वार्थं विना परोषामुपकारं करोति, सः परोपकारीति कथ्यते। तस्य तच्चकार्यं परोपकार इति नाम्ना कथ्यते। अयं गुणः सर्वजनेषु न दृश्यते। परन्तु ये जीवने स्वकीयेषु उन्नतिं कर्तुमिच्छन्ति, ते परोपकारातुल्य-गुणानवलम्ब्य एव उन्नतिं कुर्वन्ति इति केषांचित् मतम् । अत एव केचित् पुरुषाः परोपकाराय एव कूपं खानयन्ति उद्यानम् आरोपयन्ति धर्मशालाम् पाठशालाम् च निर्मापयन्ति। ते सर्वजनहिते रताः भवन्ति। न केवलं चेतनाः अपितु अचेतनाः अपि परोपकाराय यतन्ते। मेघाः परोपकारायैव स्वजलं वर्षन्ति, नद्यः परोपकारायैव वहन्ति। वृक्षाः परोपकारायैव फलन्ति। यथोक्तम् – परोपकारेणैव मानवेषु समाजसेवायाः, देशसेवायाः, दीनोद्धरण-भावनादिसद्गुणानां विकासो भवति। अस्मिन् जगति ये पुरुषाः परोपकार-परायाः भवन्ति, ते स्वधनं, पुत्रान्, दारान्, स्वशरीरमपि लीलयैव प्रददति। ते परार्थमेव सर्वदा चिन्तयन्ति साधयन्ति च; परन्तु स्वार्थं कदापि न समीहन्ते। यथा कालिदासेनोक्तम् – 'परहितनिरतानामादरो नात्मकार्ये' महाराजशिविः स्वमांसं निकृन्त्य श्येनाय, परोपकारायैव प्रादात्। महर्षिः दधीचिः देवानां हिताय स्वीयानि अस्थीनि सुप्रसन्नः इन्द्राय ददौ। महर्षिः दयानन्दः, महात्मा गांधी, नेहरूमहोदयः इत्यादयः महापूरुषाः स्वदेशस्य ससम्मानादिरक्षणार्थम् अत्यधिकं यतवन्तः। तेषु अधिकाः स्वप्राणानपि समर्पितवन्तः। एतद्विपरीतं संसारे केचन पुरुषाः स्वार्थाय परान् निघ्नन्ति। ते मनुष्यरूपेण राक्षसाः इव भुवस्तले। परन्तु ये निरर्थकं परार्थं विनाशयन्ति, ते असुरेभ्यः अपि हीनतराः। अतः अस्माभिः सर्वदा परोपकारपरायणैः भवितव्यम्। यथोक्तम् – “धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् सन्निमित्ते वरं त्यागो विनाशे नियते सति” ॥ के जनाः सर्वजनहिते रताः भवन्ति ?
गद्यांश के अनुसार, परोपकारिणः वे लोग होते हैं जो स्वार्थ के बिना दूसरों की भलाई के लिए कार्य करते हैं। गद्यांश में यह स्पष्ट रूप से कहा गया है कि परोपकारिणः सर्वजनहिते रताः होते हैं। इसका अर्थ है कि वे लोग जो परोपकार में लगे रहते हैं, वे समाज के हित में कार्य करते हैं और इसी कारण से वे सर्वजनहिते रताः कहलाते हैं। अब हम अन्य विकल्पों पर विचार…Read More
Source :
Source :
Source :
Source :