Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत –

कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः । सः कुटीरः कस्यचित् चर्म-कारस्य । महात्मा तम् उपसर्प्य अपृच्छत् – “आर्य ! किम् अत्र पानाय जलं लभ्येत ?” इति । महात्मानम् उपस्थितं दृष्ट्वा सः चर्मकारः नितरां सन्तुष्टः । सः उत्थाय अन्तः गत्वा जलम् आनीय महात्मने दातुम् उद्यतः । तावता तेन स्वस्य चर्मकारकुलत्वं स्मृतम् । अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान् । “किं महोदय ! किमर्थं जलदाने एवं सङ्कोचः ?” – सः महात्मा पृष्टवान् । तदा चर्मकारः अवदत् – “श्रीमन् ! अहम् अस्मि निम्नकुलीयः । मया भवते जलं यत् दीयेत तत् भवेत् पापाय” इति । “पापपुण्यादिविषये भवतः महती चिन्ता !” इति हसन् उक्तवान् सः महात्मा । ततः द्वित्राणि पदानि अग्रे निक्षिप्य सः चर्मकारस्य स्कन्धे हस्तं संस्थाप्य अवदत् – “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम् । तस्मात् यदि पापं प्राप्येत तर्हि तत् तु मया प्राप्येत । अतः इदानीं जलदाने न कापि आपत्तिः । कृपया जलं दीयताम्” इति । चर्मकारः तस्मै जलं दत्तवान् । जलं पीत्वा सः महात्मा उक्तवान् – “भ्रातः ! भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः । तत्र श्रद्धा न करणीया । अहम् इदानीं बुभुक्षितः अस्मि अपि । यदि अद्य भवद्गृहे भोजनं प्राप्येत तर्हि वरं स्यात्” इति । “भवान् मम गृहे भोजनं कर्तुं सज्जः यत् तत् तु मम सौभाग्याय एव” इति सहर्षम् उक्त्वा पाक‍सज्जीकरणाय पत्नीं सूचयितुं सः चर्मकारः अन्तः गतवान् ।

महात्मनः उक्त्यनुसारम् _____

1
स्पृश्यास्पृश्यभेदः ईश्वरेण निर्मितः । तत्र श्रद्धा करणीया ।
2
स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः । तत्र श्रद्धा न करणीया ।
3
स्पृश्यास्पृश्यभेदः न केनापि कल्पितः । अतः यथास्थिति पालनीयम् ।
4
स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः । अतः श्रद्धा करणीया ।
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option B
Explanation

Option 2 सही उत्तर है क्योंकि इसमें यह कहा गया है कि "स्पृश्यास्पृश्यभेदः मनुष्येण कल्पितः। तत्र श्रद्धा न करणीया।" इस कथन का तात्पर्य है कि जो स्पर्श और अस्पर्श का भेद है, वह मानव द्वारा निर्मित है और इसलिए इस पर विश्वास नहीं किया जाना चाहिए। महात्मा ने चर्मकार से कहा कि सभी लोग समान हैं और यह भेद केवल मानव द्वारा बनाया गया है। उन्होंने यह भी स्पष्ट किया…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2021
Question 1
Easy

Source :

CTET 2021
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

CTET 2021
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

CTET 2021
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 4
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग