Question
Easy

निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति । अतः एव ते भारतं परित्यज्य अमेरिकादिदेशेषु स्थातुकामाः भवन्ति । एवं माननेन ते स्वं प्रगतं मन्यन्ते । इमे भारतीयाः तुच्छाः मलिनाः असभ्याः अप्रगताः कूपमण्डूकबुद्धयः च सन्ति इति अन्ये विदेशीयाः मन्येरन् चेत् ते क्षन्तव्याः स्युः । परं भारतीयाः एव स्वदेशं निन्देयुः चेत् ते कथं क्षमार्हाः भवेयुः ? अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला । भारतीयेन अनुरागगोस्वामिना सा उदूढा । अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति । सा भारतम् अधिकृत्य इत्थम् अभिदधाति – “भारतस्य जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि । विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि । एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम् ? कथं न अन्ये देशाः भारते रुचिं वहन्ति ? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति ?” “अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति – “करोलिने ! इतोऽपि किं त्वं भारते निवससि ! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना ? अहो ते सहिष्णुता ! तत्र तव का सुरक्षा ? इतोऽपि त्वयि बालात्कारः किं न जातः ?” इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति । बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति । बाढम् उद्वेजिता अहम् एतस्य श्रवणात् । मया युरोपदेशाः दृष्टाः । अमेरिकादेशोऽपि दृष्टः । भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि । युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव । अतः भारते वैविध्यमस्ति । मया प्रतिज्ञातम् अस्ति यत् भारतविषयिणीम् इमां विप्रतिपत्तिं निराकर्तुं जगते भारतस्य सम्यक् परिचयः देयः इति । 'मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः' इति वाक्ये 'मनागपि' इत्यस्य आशयः _

1
किञ्चिदपि
2
बह्वपि
3
किमपि न
4
बहु किमपि
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: अव्यय प्रयोगः
Topic: अव्ययम्
Correct Answer
Option A
Explanation

'मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः' इति वाक्ये 'मनागपि' इत्यस्य आशयः 'किञ्चिदपि' अस्ति। यहाँ 'मनागपि' का अर्थ है 'कुछ भी नहीं' या 'किसी प्रकार का भी'। इस वाक्य में यह कहा जा रहा है कि ये भारतीय लोग किसी प्रकार का भी उपद्रव नहीं करते हैं और वे शांत हैं। अब, आइए अन्य विकल्पों की व्याख्या करते हैं: 2. बह्वपि: इसका अर्थ है 'बहुत कुछ' या 'कई चीजें'। यह विकल्प…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अव्यय प्रयोगः
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 2
Easy

Source :

अव्यय प्रयोगः
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 3
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 4
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद धर्मं ततः सुखम् ॥ 1…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्