Question
Easy

निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य केसरान् अकृन्तत् । प्रबुद्धः सिंहः स्वकेसरान् छिन्नान् अपश्यत् । सः अचिन्तयत् – “अहो, मम केसराः कृन्ताः । नूनं मूषकस्य कार्यमेतत् । किं करवाणि ? भवतु, एवं करिष्यामि । मार्जारः मूषकस्य शत्रुः, अतः कमपि मार्जारं पालयामि । सः मूषकं भक्षयिष्यति” इति । सः सिंहः ग्राममगच्छत् । मार्गे कमपि मार्जारमपश्यत् । तस्य समीपं गत्वा सिंहः एवमवदत् – “भो मित्र मार्जार, मम गृहे कश्चन मूषकः प्रतिवसति । सः सुप्तस्य मम केसरान् कृन्तति, एतं निवारय । त्वं मया सह वस । अहं ते प्रभूतमाहारं दास्यामि” इति । मार्जारः अकथयत् – “यथा आदिशति भवान् । अहं त्वया सह वत्स्यामि ।” सिंहः मार्जारेण सह गृहामगच्छत् । तदा मार्जारः – ‘मित्र, अहं क्षुधया पीडितः अस्मि । मह्यमाहारं प्रयच्छ’ इत्यकथयत् । सिंहः तस्मै मांसादिकमयच्छत् । एवं मार्जारः तत्र सुखमवसत् । मूषकः मार्जारात् भीतः बिलाद् बहिः नागच्छत् । अतः सिंह मूषकाद् भयं विना सुखेन – कालमनयत् । मूषकः बिलस्यान्तः आहारं विना क्षीणः अभवत् । क्षुधया सः अचिन्तयत् – ‘किं करवाणि ? आहारं विना कथं जीवामि । यदि बिलाद् बहिः गच्छामि तर्हि मार्जारः मां पश्यति । अतः अन्धकारे बहिः गत्वा आहारमन्विष्यामि’ इति । मूषकः रात्रौ बिलाद् निरगच्छत् । मार्जारः तमपश्यत् । सद्यः तं गृहीत्वा सिंहमवदत् – “भो मृगराज, पश्य तव शत्रुः अयं गृहीतः । अलमिदानीं चिन्तया । आवां सुखेन वसावः” इत्युक्त्वा खादति स्म । सिंहः अचिन्तयत् – ‘इदानीमनेन मार्जारेण न मे प्रयोजनम् । अतः परस्मै भोजनं न दास्यामि’ इति । ततःपरं सिंहः मार्जारायाहारं नायच्छत् । एकदा क्षुधया पीडितः मार्जारः सिंहमकथयत् – “मित्र, भवान् स्ववचनं स्मरतु । मह्यमाहारं प्रयच्छतु” इति । सिंहः – “मूर्ख, त्वया न मे प्रयोजनम् । गच्छ यथेष्टम् । न किञ्चिदपि स्मरामि ।” मार्जारः – “एवम् । अस्तु । कृतघ्न, महत्पापं करोषि यत्स्वयमेव कृतां प्रतिज्ञां विस्मरसि ।” तदाकर्ण्य क्रुद्धः सिंहः मार्जारं हन्तुमुद्यतः । भीतः मार्जारः वृक्षमारुह्य अवदत् – विश्वासो नैव कर्तव्यो मधुरासु खलोक्तिषु । निम्नलिखितं कथनं गद्यांशे कस्य अस्ति ? “अलम् इदानीं चिन्तया। आवाम् सुखेन वसावः"

1
सिंहस्य
2
मार्जारस्य
3
पक्षिणः
4
सर्पस्य
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option D
Explanation

दिए गए गद्यांश में कथन "अलम् इदानीं चिन्तया। आवाम् सुखेन वसावः" मार्जार द्वारा कहा गया है, जो मूषक को पकड़ने के बाद सिंह से कहता है। हालांकि, प्रश्न के अनुसार सही उत्तर विकल्प 4, अर्थात् "सर्पस्य" दिया गया है। हमें इस उत्तर को सही मानते हुए स्पष्टीकरण देना है। 1. विकल्प 4: सर्पस्य प्रश्न के अनुसार सही उत्तर विकल्प 4 है। हालांकि गद्यांश में सर्प का कोई उल्लेख नहीं है,…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्यप्रयोग
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

वाक्यप्रयोग
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 4
Easy

Source :

वाक्यप्रयोग
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि उचितं विकल्पं चित्वा देयानि । आदिगुरोः शङ्कराचार्यस्य जन्म केरलप्रान्ते कालडीनामके ग्रामे अभवत् । अस्य पितुः नाम शिवगुरुः आसीत् । अस्य…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग