Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।

मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं करोति स्म । एकदा सर्वे पशवः सिंहस्य समीपम् आगच्छन् अवदन् च – मृगेन्द्र ! त्वं किमर्थं सर्वदा पशूनां वधं करोषि ? प्रसीद । वयं स्वयं तव भोजनाय प्रतिदिनम् एकम् पशुं प्रेषयिष्यामः । ततः सिंहः अवदत् – यदि यूयम् एवम् इच्छथ, तर्हि भवतु तत् । ततः प्रभृति एकः पशुः प्रतिदिनं क्रमेण सिंहस्य समीपं गच्छति स्म । एकदा एकस्य शशकस्य वारः समायातः । सः अचिन्तयत् – यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि । सः अतिविलम्बेन सिंहस्य समीपम् अगच्छत् । तत्र सिंहः तु क्षुधया पीडितः आसीत् । अतिक्रुद्वः सः शशकम् अपृच्छत् – त्वं कथं विलम्बात् समायातः ? शशकः सविनयम् अवदत् महाराज ! न मम दोषः । मार्गे अपरः सिंहः आसीत्, सः माम् अपश्यत् अवदत् च “अहम् अस्य वनस्य राजा । अहं त्वां भक्षयिष्यामि ।” अहं तम् अवदम् – अस्य वनस्य राजा तु दुर्दान्तः नाम सिंहः अस्ति । सः अद्य मां भक्षयिष्यति । अहम् अधुना तस्य भोजनाय गच्छामि । अहम् अत्र पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगच्छम् । एतत् श्रुत्वा सः सिंह अतिक्रुद्वः अभवत् । दुर्दान्तः क्रोधेन अवदत् – रे शठ ! कुत्र अस्ति सः अपरः सिंहः ? तं सत्वरं मां दर्शय । शशकः सिंहम् एकस्य गभीरस्य कूपस्य समीपम् अनयत् अकथयत् च – पश्यतु महाराज ! अस्मिन् कूपे एव सः सिंहः वसति । तस्य कूपस्य जले दुर्दान्तः स्वप्रतिबिम्बम् अपश्यत् अवदत् च एषः एव सः सिंहः? क्रोधेन परिपूर्णः सः दुर्दान्तः आत्मानं कूपे अक्षिपत् पञ्चत्वं च अगच्छत् । उक्तं हि यथा – बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥

निम्नलिखितेषु यत् क्रियारूपं अन्येभ्यः बाह्यम् अस्ति, तदुच्यताम् -

1
गच्छामि
2
अगच्छन्
3
आसीत्
4
अपृच्छत्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शब्दज्ञानम्
Topic: धातुरूप
Correct Answer
Option A
Explanation

Option 1, "गच्छामि," को सही उत्तर के रूप में चुना गया है क्योंकि यह क्रिया रूप अन्य विकल्पों से बाह्य है। आइए इसे विस्तार से समझते हैं: 1. गच्छामि: यह वर्तमान काल की क्रिया है और प्रथम पुरुष एकवचन में प्रयुक्त होती है। इसका अर्थ है "मैं जाता हूँ"। यह क्रिया रूप अन्य विकल्पों से अलग है क्योंकि यह वर्तमान काल को दर्शाता है। 2. अगच्छन्: यह भूतकाल की क्रिया…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2023
Question 1
Easy

Source :

CTET 2021
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 2
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद धर्मं ततः सुखम् ॥ 1…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 3
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषुः उचिततमम् उत्तरं चिनुत । नर्मदातीरे एकः वृक्षः आसीत् । तत्र स्वपरिश्रमेण निर्मितेषु नीडेषु खगाः सुखेन वसन्ति स्म ।…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति । योगस्य वर्णनमपि सर्वासु वैदिकसंहितासुमूलरूपेण…
Chapter :
शब्दज्ञानम्
Topic :
धातुरूप