निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य केसरान् अकृन्तत् । प्रबुद्धः सिंहः स्वकेसरान् छिन्नान् अपश्यत् । सः अचिन्तयत् – “अहो, मम केसराः कृन्ताः । नूनं मूषकस्य कार्यमेतत् । किं करवाणि ? भवतु, एवं करिष्यामि । मार्जारः मूषकस्य शत्रुः, अतः कमपि मार्जारं पालयामि । सः मूषकं भक्षयिष्यति” इति । सः सिंहः ग्राममगच्छत् । मार्गे कमपि मार्जारमपश्यत् । तस्य समीपं गत्वा सिंहः एवमवदत् – “भो मित्र मार्जार, मम गृहे कश्चन मूषकः प्रतिवसति । सः सुप्तस्य मम केसरान् कृन्तति, एतं निवारय । त्वं मया सह वस । अहं ते प्रभूतमाहारं दास्यामि” इति । मार्जारः अकथयत् – “यथा आदिशति भवान् । अहं त्वया सह वत्स्यामि ।” सिंहः मार्जारेण सह गृहामगच्छत् । तदा मार्जारः – ‘मित्र, अहं क्षुधया पीडितः अस्मि । मह्यमाहारं प्रयच्छ’ इत्यकथयत् । सिंहः तस्मै मांसादिकमयच्छत् । एवं मार्जारः तत्र सुखमवसत् । मूषकः मार्जारात् भीतः बिलाद् बहिः नागच्छत् । अतः सिंह मूषकाद् भयं विना सुखेन – कालमनयत् । मूषकः बिलस्यान्तः आहारं विना क्षीणः अभवत् । क्षुधया सः अचिन्तयत् – ‘किं करवाणि ? आहारं विना कथं जीवामि । यदि बिलाद् बहिः गच्छामि तर्हि मार्जारः मां पश्यति । अतः अन्धकारे बहिः गत्वा आहारमन्विष्यामि’ इति । मूषकः रात्रौ बिलाद् निरगच्छत् । मार्जारः तमपश्यत् । सद्यः तं गृहीत्वा सिंहमवदत् – “भो मृगराज, पश्य तव शत्रुः अयं गृहीतः । अलमिदानीं चिन्तया । आवां सुखेन वसावः” इत्युक्त्वा खादति स्म । सिंहः अचिन्तयत् – ‘इदानीमनेन मार्जारेण न मे प्रयोजनम् । अतः परस्मै भोजनं न दास्यामि’ इति । ततःपरं सिंहः मार्जारायाहारं नायच्छत् । एकदा क्षुधया पीडितः मार्जारः सिंहमकथयत् – “मित्र, भवान् स्ववचनं स्मरतु । मह्यमाहारं प्रयच्छतु” इति । सिंहः – “मूर्ख, त्वया न मे प्रयोजनम् । गच्छ यथेष्टम् । न किञ्चिदपि स्मरामि ।” मार्जारः – “एवम् । अस्तु । कृतघ्न, महत्पापं करोषि यत्स्वयमेव कृतां प्रतिज्ञां विस्मरसि ।” तदाकर्ण्य क्रुद्धः सिंहः मार्जारं हन्तुमुद्यतः । भीतः मार्जारः वृक्षमारुह्य अवदत् – विश्वासो नैव कर्तव्यो मधुरासु खलोक्तिषु । ‘निरगच्छत्’ इत्यस्मिन् पदे कः लकारः ?
'निरगच्छत्' इत्यस्मिन् पदे 'लङ्' लकारः अस्ति। संस्कृत व्याकरणे, लङ् लकारः भूतकालं दर्शयति। 'निरगच्छत्' इत्यस्य अर्थः 'वह बाहर गया' इति अस्ति, जो भूतकाल में हुई क्रिया को दर्शाता है। अतः, 'लङ्' लकारः यहाँ उचित है। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. लुङ् लकारः: यह भी भूतकाल को दर्शाता है, परंतु यह परोक्ष भूतकाल के लिए प्रयुक्त होता है, जैसे कि किसी अन्य व्यक्ति द्वारा बताई गई भूतकाल की घटना।…Read More
Source :
Source :
Source :
Source :