अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने मध्याह्ने पुत्रः भोजनार्थं गृहम् आगतः । माता जलचषकं स्थालिकां च संस्थाप्य अन्नं सारं च पर्यवेषयत् । पुत्रः केवलमात्रं खादित्वा जननीम् अगर्हयत् – “अम्ब ! किमिदम् ? सारः सम्पूर्णः लवणमयः । एतत् खादितुं कथं शक्येत ? मह्यं भोजनं मास्तु……” मातरं भर्त्सयमानः एव सः कोपेन गृहात् बहिः गतवान् । सायं दीपज्वालनसमयः अभवत् । तथापि सः युवा पुत्रः गृहं न आगतः । रात्रौ अष्टवादनसमये आगतः सः हस्तपादं प्रक्षाल्य दूरदर्शनस्य पुरतः आसन्दे उपाविशत्, हस्तेन नियन्त्रकं (रिमोट्) गृहीत्वा । निमेषाभ्यन्तरे पिता पुत्रस्य समीपम् आगतः । तं दृष्ट्वा पुत्रः चिन्तितवान् – ‘किमिदं पिता मम समीपे एव आगच्छति ! एतावत्पर्यन्तम् एकवारमपि जलपनादिकं तेन न कृतं मया सह । इदानीं मां गर्हयितुम् एव आगच्छन् स्यात् प्रायः सः । ....’ परन्तु अवनतवदनस्य पुत्रस्य पार्श्वे उपविशन् पिता प्रावोचत् – “वत्स, भवान् मध्याह्ने भोजनं कृतवान् ननु ?” “......” “वत्स ! भवन्तम् एव अहं पृच्छामि । भवान् मध्याह्ने भोजनं कृतवान् किम् ?” “आम् !” – किञ्चित् रूक्षतया अवदत् पुत्रः । “कुत्र ?” मृदुस्वरेण एव अपृच्छत् पिता । “मम सुहृदः माम् उपहारमन्दिरं नीत्वा भोजनं कारितवन्तः” – किञ्चिदपि अविचलितः सन् पुत्रः उक्तवान् । “सुष्ठु, पुत्र ! सुष्ठु । भवान् भोजनं कर्तुम् इच्छति चेत् भवता समये अपि विश्वे गृहाणि प्राप्येरन् । तत्र ते तुभ्यं स्वादु भोजनमपि दद्युः । परन्तु भवतः मात्रे अस्माकं गृहमेव प्रपञ्चः । तस्याः लोके अहं, भवान्, भवतः अनुजा च एव वसामः । अस्माकं त्रयाणां हितमेव तस्याः लक्ष्यम् । भवता भोजनं न कृतम् इत्यतः सा एतावत्पर्यन्तं बिन्दमात्रं जलम् अपि न स्वीकृतवती । इतोऽपि तस्याः मनः परितप्तम् अस्ति – ‘अद्य मया किं कृतम् । पाकसमये मम अवधानं कुत्र आगच्छत् ? मम अजागरूकताकारणतः सारः लवणमयः जातः । तदर्थं पुत्रः किञ्चिदपि न भुक्तवान् । सः कुत्र गतवान् स्यात् ? क्षुत्पिपासानिवारणार्थं सः कीदृशं कष्टम् अनुभूतवान् स्यात् इति न ज्ञायते’ इति” इति उक्तवान् पिता । पितुः हृदयस्पशिर्नी वाणीं श्रुत्वा पुत्रः आत्मावलोकनम् अकरोत् । ततः सावधानतया उत्थाय शनैः शनैः जनयित्र्याः समीपम् अगच्छत् । सा म्लानवदना खिन्ना च भूत्वा उपविशन्ती आसीत् तत्र । पुत्रः विनयेन ताम् उपसर्प्य मृदुमधुरेण मन्द्रस्वरेण अकथयत् – “अम्ब ! महती बुभुक्षा मम । किं न परिवेषयसि अविलम्बेन ?” इति । पुत्रं बोधयितुं पितुः वाणी कीदृशी आसीत् ?
पुत्रं बोधयितुं पितुः वाणी हृदयस्पर्शिका आसीत्, जो कि विकल्प 4 है। इसका कारण यह है कि पिता ने अपने पुत्र को उसकी माता के प्रति संवेदनशीलता और समझ विकसित करने के लिए प्रेरित किया। पिता ने पुत्र को यह बताया कि उसकी माता ने उसके भोजन न करने के कारण स्वयं भी जल ग्रहण नहीं किया और वह इस बात से अत्यंत दुखी है कि उसके द्वारा बनाए गए भोजन…Read More
Source :
Source :
Source :
Source :