Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम । अन्तर्जालस्य प्रयोगं विना एतन्न सम्भवति । अद्यत्वे अन्तर्जालस्य कृपया 'गूगल-फेसबुक-व्हाट्सएप्' इत्यादीनि अनेकानि उपकरणानि उपलभ्यानि सन्ति । अधुना तु एतानि सर्वाणि उपकरणानि चल-दूरभाषयन्त्रेऽपि विद्यमानानि सन्ति । गूगलादि उपकरणानां प्रयोगेन वयं कस्मिन्नपि विषये सर्वं ज्ञातुं शक्नुमः । अस्मिन् शब्दकोशानां, नवीन-शोध-कार्याणां सूचनानां च भण्डारः वर्तते । अन्तर्जालस्य सहायतया वयं स्थानात् स्थानं धनान्तरणं कुर्याम । समाचाराणां सन्देशानां च आदानं प्रदानं च कुर्मः । गृहादेव कार्यालयस्य कार्याणि सम्पादयामः । विपणिं गन्तुं विना वस्तूनि क्रीणामः विक्रीणामः च । अद्यत्वे तु एतादृशी स्थितिरस्ति यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्यं कर्तुं सक्षमाः न स्मः । कालान्तरे निःसंशयः वयं सर्वे अस्मिन्नेव निर्भराः भविष्यामः । एतस्य ज्ञानं विना गतिर्न भविष्यति । परन्तु एतेषां उपकरणानां प्रयोगेण वयं निष्क्रियाः भवामः । अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः । परिवारजनैः सह अपि फेसबुक व्हाट्सएप् च इत्याभ्यां माध्यमाभ्यां वार्तालापं कुर्मः । परस्पर-सम्बन्धानाम् अद्य तु किमपि महत्त्वं नास्ति । एतेषां उपकरणानां सततप्रयोगेण नेत्रदोषाः जायन्ते, पृष्ठे पीडा भवति, स्मृतेः ह्रासः दृश्यते, कार्येषु एकाग्रता नश्यति, सम्प्रेषणक्षमतायाः विकासः अवरुध्यते आत्मसम्मानं च क्षरति । यथा अन्येषां वस्तूनां प्रयोगेण लाभाः हानयश्च भवन्ति, तथैव सामाजिक-सञ्चार-माध्यमस्य प्रयोगेण अपि भवन्ति । अतएव अस्माभिः अस्य सदुपयोगाः ग्रहणीयाः दुरुपयोगः च हातव्याः । ‘सक्रियाः’ – इत्यस्य पदस्य विपरीतार्थकं पदं गद्यांशे किं अस्ति ?

1
ग्रहणीयाः
2
सदुपयोगाः
3
स्वबुद्धेः
4
निष्क्रियाः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: शब्दज्ञानम्
Topic: विलोमशब्द
Correct Answer
Option D
Explanation

गद्यांश में 'सक्रियाः' शब्द का विपरीतार्थक शब्द 'निष्क्रियाः' है। 'सक्रियाः' का अर्थ है सक्रिय या सक्रियता से भरा हुआ, जबकि 'निष्क्रियाः' का अर्थ है निष्क्रिय या बिना क्रिया के। गद्यांश में यह बताया गया है कि सामाजिक-सञ्चार-माध्यमों के अत्यधिक उपयोग से लोग निष्क्रिय हो जाते हैं, अर्थात् वे अपनी स्वबुद्धि का प्रयोग नहीं करते और केवल उपकरणों पर निर्भर रहते हैं। अब अन्य विकल्पों की बात करें: 1. ग्रहणीयाः: यह…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

शब्दज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । कश्चिद् गोमायुः नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः आहारक्रियार्थं परिभ्रमन् वने सैन्यद्वयसङ्ग्रामभूमिम् अपश्यत् । तस्यां च…
Chapter :
शब्दज्ञानम्
Topic :
विलोमशब्द
Question 2
Easy

Source :

शब्दज्ञानम्
अधोलिखितान् पद्यान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । जाड्यं धियो हरति सिञ्चति वाचि सत्यम्, मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम्, सत्सङ्गतिः…
Chapter :
शब्दज्ञानम्
Topic :
विलोमशब्द
Question 3
Easy

Source :

शब्दज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत विन्ध्यपर्वतमालायाः मध्ये चित्रकूटं नाम तीर्थस्थलम् अस्ति । स्थानमिदं कोलाहलरहितं प्राकृतिकसौन्दर्यसम्पन्नमस्ति । अत्र आगमनेन दर्शनेन च आनन्दानुभूतिः…
Chapter :
शब्दज्ञानम्
Topic :
संख्याज्ञान
Question 4
Easy

Source :

शब्दज्ञानम्
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
शब्दज्ञानम्
Topic :
संख्याज्ञान