अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति । इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते । इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते । वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्–इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति । विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति । एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति । अस्याः अध्ययनेनैव अस्माकं सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति । आधुनिके कलियुगे आंग्लभाषायाः एव महत्त्वम् वर्तते । स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः । संस्कृतभाषा कीदृशी न वर्तते ?
संस्कृत भाषा के बारे में दिए गए गद्यांश में यह स्पष्ट किया गया है कि संस्कृत एक मधुर, दिव्य, रम्य और सरल भाषा है। गद्यांश में संस्कृत के गुणों का वर्णन करते हुए इसे सुरवाणी, देववाणी, और गीर्वाणवाणी जैसे नामों से भी संबोधित किया गया है। विकल्प 1 "परुषा" (कठोर) संस्कृत भाषा के गुणों के विपरीत है। गद्यांश में संस्कृत को एक रम्य और मधुर भाषा के रूप में प्रस्तुत…Read More
Source :
Source :
Source :
Source :