Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं करोति स्म । एकदा सर्वे पशवः सिंहस्य समीपम् आगच्छन् अवदन् च – मृगेन्द्र ! त्वं किमर्थं सर्वदा पशूनां वधं करोषि ? प्रसीद । वयं स्वयं तव भोजनाय प्रतिदिनम् एकम् पशुं प्रेषयिष्यामः । ततः सिंहः अवदत् – यदि यूयम् एवम् इच्छथ, तर्हि भवतु तत् । ततः प्रभृति एकः पशुः प्रतिदिनं क्रमेण सिंहस्य समीपं गच्छति स्म । एकदा एकस्य शशकस्य वारः समायातः । सः अचिन्तयत् – यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि । सः अतिविलम्बेन सिंहस्य समीपम् अगच्छत् । तत्र सिंहः तु क्षुधया पीडितः आसीत् । अतिक्रुद्वः सः शशकम् अपृच्छत् – त्वं कथं विलम्बात् समायातः ? शशकः सविनयम् अवदत् महाराज ! न मम दोषः । मार्गे अपरः सिंहः आसीत्, सः माम् अपश्यत् अवदत् च “अहम् अस्य वनस्य राजा । अहं त्वां भक्षयिष्यामि ।” अहं तम् अवदम् – अस्य वनस्य राजा तु दुर्दान्तः नाम सिंहः अस्ति । सः अद्य मां भक्षयिष्यति । अहम् अधुना तस्य भोजनाय गच्छामि । अहम् अत्र पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगच्छम् । एतत् श्रुत्वा सः सिंह अतिक्रुद्वः अभवत् । दुर्दान्तः क्रोधेन अवदत् – रे शठ ! कुत्र अस्ति सः अपरः सिंहः ? तं सत्वरं मां दर्शय । शशकः सिंहम् एकस्य गभीरस्य कूपस्य समीपम् अनयत् अकथयत् च – पश्यतु महाराज ! अस्मिन् कूपे एव सः सिंहः वसति । तस्य कूपस्य जले दुर्दान्तः स्वप्रतिबिम्बम् अपश्यत् अवदत् च एषः एव सः सिंहः? क्रोधेन परिपूर्णः सः दुर्दान्तः आत्मानं कूपे अक्षिपत् पञ्चत्वं च अगच्छत् । उक्तं हि यथा – बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ ‘सविनयम्’ इदं पदं किम् अस्ति ?

1
प्रत्ययः
2
विशेषणम्
3
क्रियाविशेषणम्
4
अव्ययः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: अव्यय प्रयोगः
Topic: अव्ययम्
Correct Answer
Option C
Explanation

‘सविनयम्’ इदं पदं ‘क्रियाविशेषणम्’ अस्ति, यः विकल्पः 3 अस्ति। क्रियाविशेषणं तु क्रियायाः विशेषणं करोति, यथा क्रिया कथं, कदा, कुत्र, इत्यादि प्रश्नानां उत्तरं ददाति। अस्मिन् प्रसङ्गे, ‘सविनयम्’ इति पदं ‘अवदत्’ इत्यस्य क्रियायाः विशेषणं करोति। शशकः सिंहं सविनयेन अवदत् इति अर्थः अस्ति, यः दर्शयति यथा शशकः विनयपूर्वकं सिंहं सम्बोधितवान्। अतः, ‘सविनयम्’ इति पदं क्रियायाः विशेषणं भवति, अतः विकल्पः 3 उचितः अस्ति। अन्य विकल्पानां अप्रमाणिकत्वं यथा: 1. प्रत्ययः: प्रत्ययः तु धातोः वा नामपदस्य…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । विद्या ददाति विनयं विनयाद्याति पात्रताम् । पात्रत्वाद् धनमाप्नोति धनाद धर्मं ततः सुखम् ॥ 1…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 2
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 3
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्
Question 4
Easy

Source :

अव्यय प्रयोगः
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा…
Chapter :
अव्यय प्रयोगः
Topic :
अव्ययम्