Question
Easy

निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काञ्चित् व्यवस्थां परिकल्पयतु कृपया” इति । तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति । तस्य गृहस्य समीपे काचित् महाशिला आसीत् । सः निर्धनः तस्याः नोदनम् आरब्धवान् । शिला तु महाकारा आसीत् । अतः सः तां कम्पयितुम् अपि न शक्तवान् । तथापि भगवतः आदेशं पालयितुम् इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान् । एवमेव कानिचन दिनानि गतानि । जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः । ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान् । एतस्याः नोदने प्रवृत्तः भवान् मूर्खः एव’ इति एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान् । एवमेव मासत्रयम् अतीतम् । तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत् । अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत् । तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत् । तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः । तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत् । तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः व्यर्थः न । अतः अलं चिन्तया ।” तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम् । किन्तु शिला न अकम्पत अपि । तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति । “सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव । नोदनात् शिला लवमात्रणापि न अकम्पत इति तु सत्यम् । किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः । भवता दृढकायत प्राप्ता । अतः यत्किमपि कार्यं कर्तुं समर्थः भवान् । मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान् । शक्तिहीनताकारणतः सः दुर्बलः किं न प्राप्नोति स्म ?

1
धनम्
2
भृतिकार्यम्
3
आशीर्वादम्
4
जनापवादम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: क्रियापद विज्ञानम्
Topic: क्रियापद चयन
Correct Answer
Option B
Explanation

गद्यांश के अनुसार, दुर्बल व्यक्ति शरीर-शक्तिहीनता के कारण भृतिकार्य (काम) नहीं प्राप्त कर पाता था। यह स्पष्ट रूप से दर्शाता है कि उसकी शारीरिक कमजोरी के कारण वह कोई काम नहीं कर सकता था, जो उसकी आजीविका के लिए आवश्यक था। इसलिए, विकल्प 2 "भृतिकार्यम्" सही उत्तर है। अब अन्य विकल्पों पर विचार करते हैं: 1. धनम्: गद्यांश में कहीं भी यह उल्लेख नहीं है कि दुर्बल व्यक्ति धन प्राप्त…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – भारतदेशस्य उत्तरस्यां दिशि हिमालयो नाम पर्वतरा‍जः वर्तते । अस्य तुङ्गानि शिखराणि सर्वदा हिमेनाच्छादितानि भवन्ति ।…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 2
Easy

Source :

क्रियापद विज्ञानम्
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 3
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन
Question 4
Easy

Source :

क्रियापद विज्ञानम्
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र…
Chapter :
क्रियापद विज्ञानम्
Topic :
क्रियापद चयन