अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति । पृथिवी, जलम्, तेजः, वायुः, आकाशः च अस्याः प्रमुखानि तत्त्वानि । तान्येव मिलित्वा पृथक्तया वाऽस्माक पर्यावरणं रचयन्ति । आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम् । यथा अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ । परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति । प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम् ? अत एव अस्माभिः प्रकृतिः रक्षणीया । तेन च पर्यावरणं रक्षितं भविष्यति । प्राचीनकाले लोकमङ्गलाशंसिन ऋषयो वने निवसन्ति स्म । यतो हि वने सुरक्षितं पर्यावरणमुपलभ्यते स्म । तत्र विविधा विहगाः कलकूजिश्रोत्ररसायनं ददति । सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति शीतलन्दसुगन्धवनपवना औषधकल्पं प्राणवायुं वितरन्ति । परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति । स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति । जनाः यन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति । तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति । नदीजलमपि तत्सर्वथाऽपेयं जायते । मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति । तस्मात् अवृष्टिः प्रवर्धते, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति । शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते । एवं हि स्वार्थान्धमानवैः विकृतिम् उपगता प्रकृतिः एव सर्वेषां विनाशकर्त्री भवति । विकृतिमुपगते पर्यावरणे विविधाः रोगाः भीषणसमस्याश्च सम्भवन्ति । तत्सर्वमिदानीं चिन्तनीयं प्रतिभाति । धर्मो रक्षति रक्षितः इत्यार्षवचनम् । पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः । अत एव वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतोरूपेण अङ्गीकृतम् । कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च रक्षणीयाः । प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र नास्ति संशयः । शुद्धपर्यावरणम् अस्मभ्यं किं न प्रददाति ?
प्रश्न में पूछा गया है कि शुद्ध पर्यावरण हमें क्या नहीं प्रदान करता है। विकल्प 3, "प्राकृतिक विपत्तिम्", सही उत्तर है। विकल्प 3 (प्राकृतिक विपत्तिम्) सही है क्योंकि शुद्ध पर्यावरण का होना प्राकृतिक विपत्तियों को कम करने में सहायक होता है। जब पर्यावरण शुद्ध और सुरक्षित होता है, तो प्राकृतिक आपदाएँ जैसे जलप्लावन, भूकम्प, और अन्य विपत्तियाँ कम होती हैं। यदि पर्यावरण प्रदूषित या विकृत हो जाता है, तो यह…Read More
Source :
Source :
Source :
Source :