Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत – उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः । सम्पूर्णे राजपरिवारे शोकः आच्छत्रः । एकमात्रं सः एव राज्ञः प्रियतमः उत्तराधिकारी आसीत् । राजवैद्याः तस्य चिकित्सां अकुर्वन् । किन्तु सफलता नैव मिलिता । राजज्योतिषिणा तस्य दीर्घायुष्यं जन्मपत्रतः दृष्ट्वा एकः उपायः कथितः यत् यदि काचित् सती साध्वी स्त्री राजकुमारं दष्ट-स्थाने स्पृशेत् तर्हि अयं स्वस्थः भवेत् । राज्ञः अनेकपल्यः आसन् । राजकुमारस्य जननी अपि तासु एका आसीत् । सा प्रथमं ततः च क्रमशः सर्वाः अपि राज्ञः राजकुमारं स्पृष्टवत्यः । किन्तु राजकुमारस्य चेतना नैव आयाता । अनेन राज्ञीनाम् असतीत्वम् अपि प्रकटितम् अभूत् । पुरस्कार-लोभेन राजस्वस्य अन्याभिः अपि महिलाभिः चेष्टा कृता । किन्तु ताः अपि विफलाः एव अतिष्ठन् । अन्ते तेन एव राजज्योतिषिणा राजा निवेदितः यत् अधुना एव राज्य-सीमा‍य‍म् एका युवतिः स्वस्य पत्या सह प्रविष्टा अस्ति । कदाचित् सा कार्यं साधयेत् । राजा एकाकी एव ताम् आनेतुं निर्गतः । ताम् उपेत्य सः अनुनयं विनयं कृत्वा राजभवनम् आनीतवान् । तस्याः स्पर्शमात्रेण राजकुमारः तत्क्षणम् एव सुप्तोत्थितः इव जागरितः । सर्वेषां हर्षेण मुख-कमलानि विकसितानि अजायन्त । विरक्तः राजा स्वीयं राज्यार्धं ताभ्यां दम्पतिभ्याम्, अवशिष्टं च आत्मजाय समर्प्य तपः तप्तुं वनं प्रस्थितः इति । ‘सुप्तोत्थितः’ – इत्यस्मिन् पदे सन्धिनिर्देशं कुरुत ।

1
विसर्गसन्धिः
2
गुणसन्धिः
3
वृद्धिसन्धिः
4
अयादिसन्धिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: सन्धि विचारः
Topic: सन्धि
Correct Answer
Option B
Explanation

गद्यांश में दिए गए 'सुप्तोत्थितः' शब्द में सन्धि का प्रकार 'गुणसन्धिः' है, जो विकल्प 2 के रूप में सही उत्तर है। आइए इसे विस्तार से समझते हैं: 1. गुणसन्धिः: यह सन्धि तब होती है जब दो स्वर मिलकर एक नया स्वर बनाते हैं। उदाहरण के लिए, 'अ' और 'उ' मिलकर 'ओ' बनाते हैं। 'सुप्त' और 'उत्थितः' के बीच 'अ' और 'उ' का मेल होता है, जिससे 'ओ' बनता है। इसलिए,…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

सन्धि विचारः
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 2
Easy

Source :

सन्धि विचारः
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 3
Easy

Source :

सन्धि विचारः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति । पृथिवी,…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 4
Easy

Source :

सन्धि विचारः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि