Question
Easy

अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति । शरीरेणैव सर्वाणि शुभानि कार्याणि साधयितुं शक्यन्ते । शरीरस्य स्वास्थ्यायाधोलिखिताः नियमाः अवश्यं पालनीयाः - सर्वतः प्रथमं स्वस्थेन मनुष्येण ब्राह्मे मुहूर्ते उत्थातव्यम् । नियमितरूपेण दन्तधावनेन कूर्चिकया वा दन्तशुद्धिः कर्तव्या । प्रत्येकं दन्तं क्रमशः निर्मलं कृत्वा जलेन मुखं धावनीयम् । एवं मुखस्य सर्वं मलमपनीयते मुखरोगाश्च न भवन्ति । शीतलेन जलेन वदनप्रक्षालनं नेत्रयोश्च शुद्धिः हितकरी भवति । ततः सर्वस्मिन् शरीरे तैलमर्दनं विधेयम् । तैलमर्दनेन अङ्गानि बलिष्ठानि जायन्ते सौन्दर्यं च वर्धते । पुनः व्यायामः कर्तव्यः । व्यायामेन सम्यक् रक्तसञ्चारः, पेशीनां पुष्टिः, क्षुधावृद्धिः, शरीरे च स्फूर्तिः जायते । व्यायामानन्तरं किञ्चित्कालं स्थित्वा स्नानमपि विधेयम् । स्नानं प्रायः शीतलेन वारिणा कर्तव्यम्; परन्तु शिथिले शरीरे कदुष्णेन वारिणा स्नानं हितकरं भवति । स्नानं कृत्वा स्वच्छान्येव वस्त्राणि धारणीयानि, न तु मलिनानि । मलिनवस्त्राणां धारणमेतादृशमेव भवति यथा स्नात्वा पङ्कलेपः कृतः स्यात् । स्वास्थ्यरक्षार्थं स्वाहारेऽपि ध्यानं देयम् । यः यथासमयं भक्षयति, परिमितं च, सः कदापि जठररोगेण पीडितो न भवति । भोजनं सात्त्विकं, शुद्धं, पुष्टिकरं च स्यात् तच्च शान्तमनसा भोक्तव्यम् । यथा स्वच्छता, व्यायामः, भोजनं च स्वास्थ्याय उपयुक्तानि, तथैव विश्रामस्यापि महत्त्वमस्ति । ऋते विश्रामात् कश्चिदपि स्वस्थः स्थातुं न शक्नोति । विश्रामेण श्रमोऽपनीयते, तस्मात् विश्रामः स्वास्थ्याय परमावश्यकः । ये परीक्षा-दिनेषु निरन्तरं पठन्ति, न च विश्राम्यन्ति, ते विक्षिप्ताः जायन्ते, सर्वं पठितं च विस्मरन्ति । एवं च रुग्णीभूय परीक्षायामनुत्तीर्णाः जायन्ते । तस्माद्विश्रामस्यापि महत्यावश्यकता वर्तते । आलस्यं विश्रामस्य पर्यायो नास्ति । आलस्यं तु कर्मण्यनिच्छा भवति, विश्रामश्च कर्मणः करणाय नवशक्त्याः अर्जन-साधनम् भवति । तस्मान्मनुष्येणालसेन न भाव्यम्, परमावश्यको विश्रामः कर्तव्यः । तैलमर्दनानन्तरं किं कर्तव्यम् ?

1
स्नानम्
2
व्यायामः
3
भोजनम्
4
नृत्यम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option B
Explanation

गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि तैलमर्दनं (तेल मालिश) के बाद व्यायामः (व्यायाम) करना चाहिए। यह इसलिए है क्योंकि तैलमर्दन से शरीर के अंग बलिष्ठ होते हैं और सौंदर्य में वृद्धि होती है, और इसके बाद व्यायाम करने से रक्तसंचार में सुधार होता है, पेशियों की पुष्टता बढ़ती है, भूख में वृद्धि होती है, और शरीर में स्फूर्ति आती है। अब अन्य विकल्पों पर विचार करते…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

शुद्धि विचारः
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

शुद्धि विचारः
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत । अस्ति कस्यचिन्महीपतेः कस्मिश्चित्स्थाने मनोरमं शयनस्थानम् । तत्र शुक्लतरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी नाम श्वेता यूका प्रतिवसति स्म…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

शुद्धि विचारः
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

शुद्धि विचारः
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना