Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते । तरङ्गैः - इत्यस्मिन् पदे का विभक्तिः किं वचनञ्च अस्ति ?

1
पञ्चमी, द्विवचनम्
2
तृतीया, बहुवचनम्
3
सप्तमी, बहुवचनम्
4
तृतीया, एकवचनम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: कारक एवं विभक्ति
Topic: विभक्ति
Correct Answer
Option B
Explanation

तरङ्गैः - इत्यस्मिन् पदे तृतीया विभक्तिः बहुवचनं च अस्ति। संस्कृत व्याकरणानुसारं, तृतीया विभक्तिः साधारणतः करण कारकं सूचयति, यत् साधनं वा उपकरणं सूचितं भवति। "तरङ्गैः" इत्यस्मिन् पदे "तरङ्ग" शब्दस्य तृतीया विभक्तिः बहुवचनं प्रयुक्तं अस्ति, यत् जलतरङ्गैः सह सम्बन्धं दर्शयति। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. पञ्चमी, द्विवचनम्: पञ्चमी विभक्तिः सामान्यतः अपादान कारकं सूचयति, यत् पृथक्करणं वा दूरीकरणं दर्शयति। "तरङ्गैः" इत्यस्मिन् पदे पञ्चमी विभक्तिः उपयुक्तं नास्ति, यतः यहाँ पर कोई…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

कारक एवं विभक्ति
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 2
Easy

Source :

कारक एवं विभक्ति
अधोलिखितान् पद्यान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। उद्योगो नास्ति दारिद्र्यं, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरिते भयम् ॥ किं कुलेन विशालेन…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 3
Easy

Source :

कारक एवं विभक्ति
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Question 4
Easy

Source :

कारक एवं विभक्ति
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - खलः सर्षपमात्राणि परच्छितद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ 1 ॥ सर्पदुर्जनयोर्मध्ये वरं…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति