अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत – विविधा योगपद्धतयः - भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः योगस्य सप्तपद्धतयः सन्ति । तद्यथा – (1) साङ्ख्ययोगः/ज्ञानयोगः (2) कर्मयोगः (3) भक्तियोगः (4) मन्त्रयोगः (5) लययोगः (6) हठयोगः । एषां सर्वेषां परिचयोऽधो लिखितः - (1) – साङ्ख्ययोगः/ज्ञानयोगः साङ्ख्ययोगस्य यद्वा ज्ञानयोगस्य प्रथमो व्याख्याता महर्षि कपिल आसीत् । गीतायां भगवता कृष्णेन प्रतिपादितं यत् ज्ञानेन सदृशं किमपि पवित्रं नास्ति । यदा जीवात्मा साङ्ख्यदर्शने विवेचितानि पञ्चविंशतिः तत्त्वानि यथार्थतया जानाति तदनन्तरं स मुक्तो भवति । एष एव ज्ञानयोगः/साङ्ख्ययोगोऽस्ति । गीतायां ज्ञानयोगस्य व्याख्या इत्थं प्रतिपादिता अस्ति – यथा अग्नि रैधांसि समिद्धः भस्मसात्कुरुते तद्वदेव ज्ञानग्निः सर्वकर्माणि भस्मसात्कुरुते । (2) – कर्मयोगः कर्मफलेष्वधिकारं विहाय, आत्मानं निमित्तमात्रमङ्गीकृत्य यदा मानवः कर्मसु प्रवृत्तो भवति तदेव “कर्मयोगः” यद्वा “निष्कामकर्मयोगः” इति कथ्यते । कर्मफलाधिकारत्यागस्य नास्त्यमभिप्रायो यत्कर्मणः फलन्तु प्राप्स्यत्येव न तत्किमर्थं वयं कर्म कुर्मः? कारणकार्यसिद्धान्तानुसारं कृतकर्मणः फलन्तु निश्चितमेवास्ति । अस्य अयमेव अभिप्रायो यद्-यदा वयं कृतस्य कर्मणः फलप्राप्त्यर्थमेव कर्मसु प्रवृत्ता भवामस्तदा वयं संशयग्रस्ताः, चिन्तातुराः, भयभीता इत्यादिभ्यो नकारात्मकेभ्यो विचारेभ्यो विचलिता भवामः । कृतस्य कर्मणः फलं प्राप्स्यति न वा ? कदा प्राप्स्यति ? कचिद् बाधा तु नोपस्थिता भविष्यति ? इत्यादिभिः कारणैः कर्मसुन्यूनता भवति । यया शक्त्या, येन चोत्साहेन कर्म करणीयं स्यात्, सा शक्तिः स चोत्साहः फलस्य चिन्तायां नष्टो भवति । परिणामतः कर्मणि न्यूनता जायते । फलं तु कर्मण एव प्राप्यते, यदा कर्मणि न्यूनता जाता तदा फलेऽपि न्यूनता भविष्यति । अतः कर्मफलाकांक्षामथवा कर्मफलाधिकारं विहाय अहर्निशं कर्त्तव्यकर्म करणीयमेव कर्मयोगो भवति । श्रीमद्भगवद्गीतायामस्य व्याख्या अधोलिखिता अस्ति – तव अधिकारः फलेषु नास्ति अपितु कर्मस्वेव तवाधिकारः । त्वं कर्म मा त्यज न च कर्मफलस्य हेतुर्भूः । सफलतायामसफलतायां समो भूत्वा कर्माणि कुरु यतो हि समत्वमेव योगो भवति । अन्यच्य योगस्य परिभाषा अस्ति कुशलतापूर्वकं कर्म अपि योग एव अस्ति । “योगः कर्मसु कौशलम्” (3) – भक्तियोगः मनसावाचाकर्मणा सर्वभावेन आत्मानं परमेश्वरार्पणं कृत्वा अजस्रं कर्त्तव्यकर्मसु निरतमेव भक्तियोगः कथ्यते । भौतिकान् सर्वान् कामान् सर्वथा विहाय श्रद्धान्वितो भूत्वा सर्वकामनीश्वरार्पणं कृत्वा, यस्तस्यैव स्तुतिप्रार्थनोपासनायां समयं यापयति सैव भक्तियोगस्य साधकः । (4) – मन्त्रयोगः ईश्वरस्यमुख्यं नाम ‘ओ३म्’ अथवा गायत्र्यादीनां मन्त्राणां जप काले यदा मन्त्रेषु मन स्थिरं भवति सैव “मन्त्रयोगः” कथ्यते । वाचिकम्-उपांशुः - मानसिकम् – अजपाजपञ्च्येति चतुर्विधा जपविधिः । (5) – लययोगः सर्वदा अजस्ररूपेण ईश्वरस्य चिन्तने मनने-एव यदा मनःसंलग्नम्भवति सैव अवस्था लययोगस्य भवति । ध्यानावस्थायां नादानुसन्धानं कृत्वा मनो नादे-एव स्थिरीकरणमपि लययोगः कथ्यते । (6) – हठयोगः हठ शब्दे हकारो ठकारश्चेत्येतौ शब्दौ योगपरम्परायां पारिभाषिकौ स्तः । हकारस्य अर्थोऽस्ति सूर्यस्वरः [नासिकया दक्षिणरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] ठकारस्य अर्थोऽस्ति चन्द्रस्वरः [नासिकया वामरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] सूर्यचन्द्रस्वरयोः सम्मेलनं कृत्वा सुषम्णानाड्यां प्रवाहकरणमेव हकारठकारयोर्योगो “हठयोग” इति कथ्यते । "तत्किमर्थं वयं कर्म कुर्मः" इत्यत्र 'कुर्मः' इत्यस्य निष्पत्तिर्भवति -
प्रश्न में दिए गए वाक्यांश "तत्किमर्थं वयं कर्म कुर्मः" में 'कुर्मः' शब्द की निष्पत्ति को समझने के लिए हमें संस्कृत व्याकरण के कुछ नियमों को देखना होगा। 1. डुकृञ् + लट्लकारे उत्तमपुरुषस्य बहुवचने: - 'कुर्मः' शब्द का मूल धातु 'कृ' है, जो 'करना' के अर्थ में प्रयुक्त होता है। - 'कृ' धातु का धातुपाठ में रूप 'डुकृञ्' है। - लट्लकार का प्रयोग वर्तमान काल के लिए होता है। - 'उत्तमपुरुष'…Read More
Source :
Source :
Source :
Source :