Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन् । ततः ते तीर्त्वा पारं गताः । तदा तेषां नायकः अपृच्छत् - अपि सर्वे बालकाः नदीम् उत्तीर्णाः ? इति । तदा कश्चित् बालकः अगणयत् - एकः, द्वौ, त्रयः, चत्वारः, पञ्च, षट्, सप्त, अष्टौ, नव इति । सः स्वं न अगणयत् । अतः सः अवदत् - नव एव सन्ति । दशमः न अस्ति इति । अपरः अपि बालकः पुनः अन्यान् बालकान् अगणयत् । तदा अपि नव एव आसन् । अतः ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः इति । ते दुःखिताः तूष्णीम् अतिष्ठन् । तदा कश्चित् पथिकः तत्र आगच्छत् । सः तान् बालकान् दुःखितान् दृष्ट्वा अपृच्छत् - बालकाः युष्माकं दुःखस्य कारणं किम् ? इति । बालकानां नायकः अकथयत् - वयं दश बालकाः स्नातुम् आगताः । इदानीं नव एव स्मः । एकः नद्यां मग्नः इति । पथिकः तान् अगणयत् । तत्र दश बालकाः एव आसन् । सः नायकम् आदिशत्-त्वं बालकान् गणय इति । सः तु नव बालकान् एव अगणयत् । तदा पथिकः अवदत् - दशमः त्वम् असि इति । तत् श्रुत्वा प्रहृष्टाः भूत्वा सर्वे गृहम् अगच्छन् । 'उत्तीर्णः' इत्यस्मिन् पदे कः धातुः कः प्रत्ययः ?

1
तीर् + क्त
2
तृ + क्त
3
तृ + क्त्वा
4
तीर् + णिच्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्य रचना
Topic: प्रत्यय
Correct Answer
Option B
Explanation

'उत्तीर्णः' इत्यस्मिन् पदे 'तृ' धातुः प्रयुक्तः अस्ति। 'तृ' धातुः संस्कृतभाषायां 'तरणे' इत्यर्थे उपयुज्यते, यः 'पार करना' अथवा 'उत्तीर्ण होना' इत्यर्थं द्योतयति। 'उत्तीर्णः' इत्यस्मिन् पदे 'तृ' धातोः 'क्त' प्रत्ययः युज्यते, यः क्तप्रत्ययः भूतकालिकं कृतं कर्म दर्शयति। अतः 'उत्तीर्णः' इत्यस्य निर्माणं 'तृ + क्त' इत्यस्मात् भवति। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. तीर् + क्त: 'तीर्' धातुः संस्कृत में नहीं पाया जाता, अतः यह विकल्प गलत है। 3. तृ +…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्य रचना
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 2
Easy

Source :

वाक्य रचना
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 3
Easy

Source :

वाक्य रचना
निर्देश : निम्नलिखित गद्यांश को पढ़कर पूछे गए प्रश्नों में सही। सबसे उपयुक्त उत्तर वाले विकल्प को चुनिए। तरह-तरह के बदलाव हुए मशीनों के आने…
Chapter :
वाक्य रचना
Topic :
प्रत्यय
Question 4
Easy

Source :

वाक्य रचना
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा…
Chapter :
वाक्य रचना
Topic :
प्रत्यय