Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते । वरुणदेवः काष्ठिकस्य किं कर्तुं ऐच्छत् ?

1
कल्याणम्
2
परीक्षाम्
3
हानिम्
4
संवर्धनम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: वाक्य परिवर्तन
Topic: वाक्येषु प्रश्ननिर्माणम्
Correct Answer
Option B
Explanation

प्रश्न के अनुसार, "वरुणदेवः काष्ठिकस्य किं कर्तुं ऐच्छत्?" का सही उत्तर विकल्प 2 "परीक्षाम्" है। अब हम इस उत्तर को सही ठहराने के लिए विस्तृत व्याख्या करेंगे और अन्य विकल्पों को गलत साबित करेंगे। 1. परीक्षाम् (Option 2): गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि वरुणदेव ने सत्यप्रिय की परीक्षा लेने की इच्छा की। जब सत्यप्रिय ने अपना कुठार खो दिया और रोने लगा, तब वरुणदेव ने…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्य परिवर्तन
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 2
Easy

Source :

वाक्य परिवर्तन
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 3
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्
Question 4
Easy

Source :

वाक्य परिवर्तन
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
वाक्य परिवर्तन
Topic :
वाक्येषु प्रश्ननिर्माणम्