Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । उल्लालराज्यं किञ्चन लघुसंस्थानम् । तत् सम्पद्भरितम् आसीत् । प्रजाः च सन्तोषेण जीवन्ति स्म तत्र । तत्र एलालवङ्गमरीचादीनाम् उत्पत्तिः अधिका । तानि क्रेतुं विदेशीयाः बहवः आयान्ति स्म । सम्पत्तिकारणतः तस्य संस्थानस्य राजा विलास-प्रियः जातः । गच्छता कालेन तस्य मद्यपानप्रवृत्तिः अधिका जाता । वाणिज्यारर्थम आगताः पोर्तुगीसाः कदाचित् कांश्चन प्रदेशान् जित्वा भारते स्वशासनम् आरब्धवन्तः । उल्लालसंस्थानस्य राज्ञे अधिकाधिकं मद्यं दत्त्वा ते तस्य गाढां मैत्रीं सम्पादितवन्तः । राज्ञः मद्यसेवनप्रवृत्तिः यदा अधिका जाता तदा राज्ञी अभयादेवी तं बहुधा बोधितवती । तथापि राज्ञः व्यवहारे कोऽपि परिष्कारः न जातः । अथ कदाचित् पोर्तुगीसैः प्रेरितः राजा तेषां केन्द्रं गत्वा तत्रैव वासम् आरब्धवान् । मद्यपानाय यत् मद्यं क्रेतव्यं, तन्निमित्तं स्वसंस्थानमेव पोर्तुगीसाधीनं कृतवान् सः । राजा यदा पोर्तुगीसकेन्द्रे वासम् आरब्धवान् तदा मन्त्रिभिः बोधिता राज्ञी संस्थानरक्षणाय स्वयं शासनसूत्रं गृहीतवती, राजानं देशद्रोहित्वेन उद्घोषितवती च । पोर्तुगीसजनाः राज्ञा दत्तं पत्रं गृहीत्वा उल्लाल-संस्थानम् आगताः । अभयादेवी तैः आनीतं पत्रं दृष्ट्वा क्रुद्धा सती तत् पत्रं विच्छिद्य क्षिप्तवती । "वयं युद्धं सम्मुखीकर्तुं सज्जाः । किन्तु देशम् अन्याधीनं न करिष्यामः एव" इति धैर्येण अवदत् सा । एतस्मात् क्रुद्धाः पोर्तुगीसाः ससैन्यं युद्धाय आगताः । अभयादेवी प्रतिवेशिराज्यानां साहाय्यं याचितवती । केचन राजानः साहाय्यार्थम् आगताः । पोर्तुगीसाः उल्लालराजं पुरतः संस्थाप्य युद्धम् अकुर्वन् । एतस्मिन् युद्धे पोर्तुगीसानां पराजयः जातः । ते पलायनम् अकुर्वन् । उल्लालराजः अपि पलायनं कुर्वन् बाणेन आहतः सन् रणरङ्गे अपतत् । पोर्तुगीसाः तं परित्यज्य धावितवन्तः । एकाकितया भूमौ पतितं राजानम् अभयादेवी राजभवनम् आनीतवती । वैद्याः तस्य विशेषोपचारं कृतवन्तः । किन्तु ततः प्रयोजनं किमपि न सिद्धम् । स्वदोषार्थं राज्ञीं क्षमां याचन् राजा प्राणवियोगं प्राप्तवान् । राज्ञी तस्य अन्त्यसंस्कारं निर्वर्तितवती । ततः तया धर्मेण शासनं कृतम् । स्वदेशस्य रक्षणार्थं धैर्येण युद्धं कृतवत्याः स्वातन्त्र्यप्रियायाः अभयादेव्याः चरितं निश्चयेनास्ति प्रेरणादायकं ननु ? “वयं युद्धं सम्मुखीकर्तुं सज्जाः । किन्तु देशम् अन्याधीनं न करिष्यामः एव” इत्युक्तिः कस्याः आसीत् ?

1
मन्त्रिणः
2
राज्ञः
3
राज्ञ्याः
4
वैदेशिकानाम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option C
Explanation

इस प्रश्न में "वयं युद्धं सम्मुखीकर्तुं सज्जाः। किन्तु देशम् अन्याधीनं न करिष्यामः एव" यह वाक्य अभयादेवी का है। यह वाक्य उस समय के संदर्भ में है जब अभयादेवी ने पोर्तुगीसों के खिलाफ युद्ध की तैयारी की बात की थी। उन्होंने स्पष्ट रूप से कहा कि वे युद्ध के लिए तैयार हैं, लेकिन वे अपने देश को किसी अन्य के अधीन नहीं होने देंगी। अब आइए अन्य विकल्पों पर चर्चा करते…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्यप्रयोग
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा तदाधारित – प्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – सः कश्चन लघुकुटुम्बः । तस्मिन् पितरौ, पुत्रः, पुत्री च आसन् । एकस्मिन् दिने…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

वाक्यप्रयोग
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 4
Easy

Source :

वाक्यप्रयोग
निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग