अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - योगस्य परम्परा : वेदेषु मूलरूपेण यद्वा सूत्रात्मकरूपेण सर्वा विद्याः सन्ति । योगस्य वर्णनमपि सर्वासु वैदिकसंहितासुमूलरूपेण प्राप्यते । विश्वस्य सर्वे विद्वांसः स्वीकुर्वन्ति यद्वेदा विश्वस्य प्राचीनतमा ग्रन्थाः सन्ति । भारतीयज्ञानपरम्परानुसारन्तु सर्गादौ परमकारुणिकेन परमेश्वरेण सर्वोपकारार्थम् अग्नि-वायुः-आदित्य, अङ्गिरा इत्येतेभ्यो ऋषिभ्योऽनुक्रमेण ऋग्वेदस्य, यजुर्वेदस्य, सामवेदस्य, अथर्ववेदस्य च ज्ञानं दत्तम् । इत्थं स्वतः सिद्धं यद् योगपरम्परा अपि सर्गसृजनेन सहैव प्रचलिता आसीत् । प्रस्तूयन्तेऽत्र केचन योगविषयका वेदमन्त्राः - योगे योगे तवस्तरं वाजे वाजे हवामहे । सखाय इन्द्रमूतये । (यजुर्वेदः) अष्टचक्रा नव द्वारा देवानां पूरयोध्या । (अथर्ववेदः) योगविषयका एतादृशा बहवो मन्त्रा वेदेषु सन्ति । अत्र तु निदर्शनरूपेण कतिपयानां मन्त्राणामेवोल्लेखः कृतः । वेदेषु विस्तरेण योगसिद्धान्तानां चर्चा विद्यते । अस्मिन् विषये स्वामिदिव्यानन्द सरस्वतिमहोदयेन लिखितो ग्रन्थो द्रष्टव्यः । वेदानां व्याख्यानभूतेषु ब्राह्मणारण्यकोपनिषत्साहित्येषु अपि विस्तरेण योगस्य चर्चा विद्यते । कठोपनिषदि वर्णनमस्ति – यदा पञ्चज्ञानेन्द्रियाणि मनसा सह स्वकीयं व्यापारं विहाय स्थिराणि भवन्ति । बुद्धिश्च न विचेष्टते सैव परमशान्त्यवस्था कथ्यते । योगेश्वरेण भगवता कृष्णेन पञ्चसहस्रवर्षेभ्यः पूर्वमेव गीतायां योगपरम्पराया वर्णनं एवम्प्रकारेण विहितमस्ति – आदौ ईश्वरेण योगस्य ज्ञानं विवस्वते दत्तमासीत् । विवस्वान् मनवे योगशास्त्रं प्राह । मनुना इक्ष्वाकोऽध्यापित । एवमुत्तरोत्तरं योगपरम्परा प्रचलिता । अनन्तरं अस्या योगपरम्पराया विलोपः सञ्जातः । तस्यैव योगस्य ज्ञानमधुना मया ते दत्तम् । महाभारतयुद्धानन्तरमेकवारं पुनर्विलुप्तेव सञ्जाता योगपरम्परा । केवलं कतिपयेषु गिरिकन्दरासु तपस्यारतेषु ऋषिमुनिष्वेन सीमिता सञ्जाता । लोके च योगविषये विविधा भ्रान्ता धारणाः प्रचलिताः । वर्तमानकाले महर्षिणा दयानन्देन पुन महर्षिपतञ्जलेर्योगदर्शनस्य वास्तविकं स्वरूपं प्रकाशितम् । तदनन्तरं महर्षिर्दयानन्दस्य अनुयायिभिर्भूरिशः प्रचारः कृतो योगपरम्परायाः, तेषु स्वामिरामदेवस्य अपूर्वमेव योगदानं वर्तते । भारतीय परम्परायामादियोगी शिव इति मन्यते । आदिकाले शिवेन हिमालयस्थे “कान्ति” इति नाम सरोवरतीरे सप्तऋषिभ्यो योगस्य ज्ञानं दत्तमासीत् । एतैः सप्तभिः ऋषिभिस्तंज्ञानं संसारस्य विविधेषु भूभागेषु प्रचारितम् । शिवः हिमालयक्षेत्रस्याधिपतिरासीत् । शिवस्य राज्ये भागीरथेन गङ्गायाः प्रवाहः प्रवाहितः, यस्य आलङ्कारिकं वर्णनं पुराणेषूपलभ्यते । 2700 ईसातः पूर्ववर्तिषु सिन्धुसभ्यतायां तथा च सरस्वती सभ्यतायां योगासनानां योगमुद्रादीनाञ्चप्राप्यमाणाः साक्ष्या अपि प्रमाणयन्ति यद् भारते सुव्यवस्थिता योगपरम्परा प्रचलिता आसीत् । महर्षिणा पतञ्जलिना महाभारतयुद्धात्प्रागेव योगदर्शने पञ्चनवत्युत्तरैकशततमेषु सूत्रेषु विभिन्नानां योगसाधकानां योगसाधनाजन्यमनुभवं सङ्कलितमासीत् । योगसूत्राणां प्रथमं भाष्यं महर्षिणा वेदव्यासेन व्यासभाष्यमिति नाम्नालिखितमासीत् । “योगविषयका एतादृक्षा बहवो मन्त्राः” इत्यत्र 'एतादृक्षाः' इत्यस्य उचिता निष्पत्तिरस्ति –
'एतादृक्षा' शब्द की निष्पत्ति के लिए सही विकल्प 'एतद् + दृश् + क्स' है, जो विकल्प 4 में दिया गया है। आइए इसे विस्तार से समझते हैं और अन्य विकल्पों की गलतियों को स्पष्ट करते हैं: 1. एतद् + दृश् + क्स (विकल्प 4): - 'एतद्' का अर्थ 'यह' होता है और 'दृश्' धातु का अर्थ 'देखना' होता है। 'क्स' प्रत्यय का प्रयोग करके 'एतादृक्षा' शब्द का निर्माण होता है,…Read More
Source :
Source :
Source :
Source :