Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत ।

एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते ।

अधोलिखितयोः तालिकयोः सम्यक् सम्मेलनं कुरुत। (क) – (ख) (a) मुम्बईनगरम् – (i) वैदेशिकव्यापारः (b) विशाखापत्तनम् – (ii) मेरीनातटः (c) चेन्नईनगरम् – (iii) नारिकेलफलानि (d) कोच्चितटः – (iv) जुहूतटः

1
(a)-(iii), (b)-(i), (c)-(iv), (d)-(ii)
2
(a)-(iv), (b)-(i), (c)-(ii), (d)-(iii)
3
(a)-(i), (b)-(ii), (c)-(iii), (d)-(iv)
4
(a)-(ii), (b)-(iv), (c)-(i), (d)-(iii)
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option B
Explanation

Option 2 को सही उत्तर के रूप में चुना गया है, और इसे निम्नलिखित कारणों से सही ठहराया जा सकता है: 1. (a) मुम्बईनगरम् – (iv) जुहूतटः: मुम्बई शहर में जुहू बीच एक प्रसिद्ध स्थान है। यह एक लोकप्रिय पर्यटन स्थल है और मुम्बई के तटों में से एक है। इसलिए, मुम्बईनगरम् का जुहूतटः से सही सम्मेलन है। 2. (b) विशाखापत्तनम् – (i) वैदेशिकव्यापारः: विशाखापत्तनम्, जिसे अक्सर विशाख के नाम…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एषः समुद्रतटः । अत्र जनाः पर्यटनाय आगच्छन्ति । केचन तरङ्गैः क्रीडन्ति । केचन च नौकाभिः…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत। अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेह कोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Adh likhitayoh t likayoh samyak sammelan - CTET Paper 1 | Clear Cutoff