Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति । इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते । इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते । वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्–इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति । विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति । एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति । अस्याः अध्ययनेनैव अस्माकं सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति । आधुनि‍के कलियुगे आंग्लभाषायाः एव महत्त्वम् वर्तते । स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः ।

आधुनिके कलियुगे कस्याः भाषायाः महत्वं वर्तते ?

1
पञ्जाबीभाषा
2
फ्रैन्चभाषा
3
आङ्ग्लभाषा
4
फारसीभाषा
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: संस्कृत साहित्यम्
Topic: संस्कृतानुवादः
Correct Answer
Option C
Explanation

आधुनिके कलियुगे आङ्ग्लभाषायाः महत्वं विशेषतः वर्तते, यः कारणं अनेकेषु क्षेत्रेषु, जसे की व्यापार, विज्ञान, प्रौद्योगिकी, और शिक्षा, आङ्ग्लभाषा प्रमुखता प्राप्त कर चुकी है। विश्वव्यापी संवाद, सूचना प्रौद्योगिकी, और वैश्विक व्यापार में आङ्ग्लभाषा एक सामान्य भाषा के रूप में कार्य करती है। संस्कृतभाषायाः गद्यांशे उल्लेखितं अस्ति यत् आधुनिकीकरणे जनाः संस्कृतभाषां पठितुम् इच्छन्ति, किन्तु वर्तमान समये आङ्ग्लभाषा अधिक प्रचलित और आवश्यक बन गई है। आङ्ग्लभाषा के ज्ञान से व्यक्ति को वैश्विक स्तर…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते । इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति । पृथिवी,…
Chapter :
संस्कृत साहित्यम्
Topic :
संस्कृतानुवादः
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
संस्कृत साहित्यम्
Topic :
संस्कृतानुवादः
Question 3
Easy

Source :

CTET 2019
मातृभाषाधारित – बहुभाषावादः नाम किम् ?
Chapter :
Pedagogy of Sanskrit
Topic :
Approaches & Evaluation in Sanskrit Teaching
Question 4
Easy

Source :

CTET 2019
विद्यालयिभाषा शिक्षानीतिः (Language-in-school education policy) ज्ञायते _____
Chapter :
Pedagogy of Sanskrit
Topic :
Approaches & Evaluation in Sanskrit Teaching