Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत –

कदाचित् कश्चन महात्मा प्रयाणावसरे पिपासाम् अनुभूतवान् । समीपे एव तेन एकः कुटीरः दृष्टः । सः कुटीरः कस्यचित् चर्म-कारस्य । महात्मा तम् उपसर्प्य अपृच्छत् – “आर्य ! किम् अत्र पानाय जलं लभ्येत ?” इति । महात्मानम् उपस्थितं दृष्ट्वा सः चर्मकारः नितरां सन्तुष्टः । सः उत्थाय अन्तः गत्वा जलम् आनीय महात्मने दातुम् उद्यतः । तावता तेन स्वस्य चर्मकारकुलत्वं स्मृतम् । अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान् । “किं महोदय ! किमर्थं जलदाने एवं सङ्कोचः ?” – सः महात्मा पृष्टवान् । तदा चर्मकारः अवदत् – “श्रीमन् ! अहम् अस्मि निम्नकुलीयः । मया भवते जलं यत् दीयेत तत् भवेत् पापाय” इति । “पापपुण्यादिविषये भवतः महती चिन्ता !” इति हसन् उक्तवान् सः महात्मा । ततः द्वित्राणि पदानि अग्रे निक्षिप्य सः चर्मकारस्य स्कन्धे हस्तं संस्थाप्य अवदत् – “महोदय ! इदानीं मया भवान् स्पृष्टः, न तु भवता अहम् । तस्मात् यदि पापं प्राप्येत तर्हि तत् तु मया प्राप्येत । अतः इदानीं जलदाने न कापि आपत्तिः । कृपया जलं दीयताम्” इति । चर्मकारः तस्मै जलं दत्तवान् । जलं पीत्वा सः महात्मा उक्तवान् – “भ्रातः ! भगवतः दृष्ट्या सर्वे समानाः । ये तारतम्यम् आचरेयुः ते तु अज्ञानिनः । स्पृश्यास्पृश्यभेदः मानवेन कल्पितः । तत्र श्रद्धा न करणीया । अहम् इदानीं बुभुक्षितः अस्मि अपि । यदि अद्य भवद्गृहे भोजनं प्राप्येत तर्हि वरं स्यात्” इति । “भवान् मम गृहे भोजनं कर्तुं सज्जः यत् तत् तु मम सौभाग्याय एव” इति सहर्षम् उक्त्वा पाक‍सज्जीकरणाय पत्नीं सूचयितुं सः चर्मकारः अन्तः गतवान् ।

'अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान्' इति वाक्ये विशेषणपदं किम ?

1
अतः
2
प्रसारितम्
3
हस्तम्
4
सः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: सर्वनाम एवं विशेषणम्
Topic: विशेषणम्
Correct Answer
Option B
Explanation

वाक्ये "अतः सः अग्रे प्रसारितं हस्तं पृष्ठतः कृतवान्" विशेषणपदं "प्रसारितम्" अस्ति। विशेषणपद वह शब्द होता है जो किसी संज्ञा या सर्वनाम की विशेषता बताता है। यहाँ "प्रसारितम्" शब्द "हस्तं" (हाथ) का विशेषण है, जो यह बताता है कि हाथ किस प्रकार का है। "प्रसारितम्" का अर्थ है "फैला हुआ" या "विस्तारित", जो यह स्पष्ट करता है कि हाथ को किस स्थिति में रखा गया है। अब अन्य विकल्पों की बात…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2021
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत – विविधा योगपद्धतयः - भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः योगस्य सप्तपद्धतयः सन्ति । तद्यथा – (1) साङ्ख्ययोगः/ज्ञानयोगः (2)…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
सर्वनाम
Question 2
Easy

Source :

CTET 2021
निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 4
Easy

Source :

CTET 2024
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - खलः सर्षपमात्राणि परच्छितद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ 1 ॥ सर्पदुर्जनयोर्मध्ये वरं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Atah sah agre prasaritam hastam prishtha - CTET Paper 2 | Clear Cutoff