Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत ।

मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं करोति स्म । एकदा सर्वे पशवः सिंहस्य समीपम् आगच्छन् अवदन् च – मृगेन्द्र ! त्वं किमर्थं सर्वदा पशूनां वधं करोषि ? प्रसीद । वयं स्वयं तव भोजनाय प्रतिदिनम् एकम् पशुं प्रेषयिष्यामः । ततः सिंहः अवदत् – यदि यूयम् एवम् इच्छथ, तर्हि भवतु तत् । ततः प्रभृति एकः पशुः प्रतिदिनं क्रमेण सिंहस्य समीपं गच्छति स्म । एकदा एकस्य शशकस्य वारः समायातः । सः अचिन्तयत् – यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि । सः अतिविलम्बेन सिंहस्य समीपम् अगच्छत् । तत्र सिंहः तु क्षुधया पीडितः आसीत् । अतिक्रुद्वः सः शशकम् अपृच्छत् – त्वं कथं विलम्बात् समायातः ? शशकः सविनयम् अवदत् महाराज ! न मम दोषः । मार्गे अपरः सिंहः आसीत्, सः माम् अपश्यत् अवदत् च “अहम् अस्य वनस्य राजा । अहं त्वां भक्षयिष्यामि ।” अहं तम् अवदम् – अस्य वनस्य राजा तु दुर्दान्तः नाम सिंहः अस्ति । सः अद्य मां भक्षयिष्यति । अहम् अधुना तस्य भोजनाय गच्छामि । अहम् अत्र पुनः आगमिष्यामि इति शपथं कृत्वा अत्र आगच्छम् । एतत् श्रुत्वा सः सिंह अतिक्रुद्वः अभवत् । दुर्दान्तः क्रोधेन अवदत् – रे शठ ! कुत्र अस्ति सः अपरः सिंहः ? तं सत्वरं मां दर्शय । शशकः सिंहम् एकस्य गभीरस्य कूपस्य समीपम् अनयत् अकथयत् च – पश्यतु महाराज ! अस्मिन् कूपे एव सः सिंहः वसति । तस्य कूपस्य जले दुर्दान्तः स्वप्रतिबिम्बम् अपश्यत् अवदत् च एषः एव सः सिंहः? क्रोधेन परिपूर्णः सः दुर्दान्तः आत्मानं कूपे अक्षिपत् पञ्चत्वं च अगच्छत् । उक्तं हि यथा – बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥

बहूनां पशूनां वधं कः करोति स्म ?

1
चित्रकः
2
व्याघ्रः
3
सिंहः
4
ऋक्षः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option C
Explanation

सही उत्तर विकल्प 3 है: सिंहः। विस्तृत व्याख्या: 1. सही उत्तर का समर्थन (विकल्प 3: सिंहः): गद्यांश में स्पष्ट रूप से उल्लेख किया गया है कि "मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म। सः च सर्वदा बहूनां पशूनां वधं करोति स्म।" इसका अर्थ है कि मन्दर पर्वत पर दुर्दान्त नामक सिंह रहता था और वह हमेशा कई पशुओं का वध करता था। इस वाक्य से स्पष्ट होता है कि पशुओं का…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2023
Question 1
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । एकदा बालः सिद्धार्थः प्रातः भ्रमणाय उपवनम् अगच्छत् । उपवने बहवः खगाः मधुरं कूजन्ति…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत । मन्दरपर्वते दुर्दान्तः नाम सिंहः वसति स्म । सः च सर्वदा बहूनां पशूनां वधं…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा दशबालकाः स्नानाय नदीम् अगच्छन् । ते निर्मले शीतले च नदीजले चिरं स्नानम् अकुर्वन्…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना