Question
Easy

निर्देशः अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत –

ग्रामे आसीत् कश्चन दुर्बलकायः । शरीर-शक्तिहीनताकारणतः सः भृतिकार्यं न प्राप्नोति स्म । सः देवं प्रार्थितवान् – “भगवन् ! मम उदरपूरणाय काञ्चित् व्यवस्थां परिकल्पयतु कृपया” इति । तस्यां रात्रौ तस्य स्वप्ने प्रत्यक्षीभूय भगवान् अवदत् – “शिलानोदनं कुरु” इति । तस्य गृहस्य समीपे काचित् महाशिला आसीत् । सः निर्धनः तस्याः नोदनम् आरब्धवान् । शिला तु महाकारा आसीत् । अतः सः तां कम्पयितुम् अपि न शक्तवान् । तथापि भगवतः आदेशं पालयितुम् इच्छन् सः स्वस्य प्रयत्नं न परित्यक्तवान् । एवमेव कानिचन दिनानि गतानि । जनाः तस्य प्रयत्नं दृष्ट्वा उपहासवचनानि उक्तवन्तः । ‘तां महाशिलां कम्पयितुम् अपि न शक्नोति भवान् । एतस्याः नोदने प्रवृत्तः भवान् मूर्खः एव’ इति एतत् श्रुत्वा अपि निर्धनः स्वस्य प्रयत्नं तु न परित्यक्तवान् । एवमेव मासत्रयम् अतीतम् । तदीयः शिलानोदनप्रयत्नः तु व्यर्थः एव आसीत् । अतः सः नितरां खिन्नः । स्वस्य दौर्भाग्यं स्मरन् एकदा सः निद्राम् अकरोत् । तस्य स्वप्ने देवः पुनः प्रत्यक्षः अभवत् । तं दृष्ट्वा सः निर्धनः – “देव ! व्यर्थकार्ये भवता अहं योजितः । तत् कृतवता मया उपहासपात्रता प्राप्ता” इति अवदत् । तदा देवः उक्तवान् – “भोः ! भवतः परिश्रमः व्यर्थः न । अतः अलं चिन्तया ।” तदा क्रुद्धः निर्धनः अवदत् – “मया द्वित्रान् मासान् यावत् शिलानोदनं कृतम् । किन्तु शिला न अकम्पत अपि । तां नोत्तुं मया कृतः प्रयासः किं व्यर्थः न ?” इति । “सा महाशिला भवता कम्पयितुं न शक्या इति अहं जानामि एव । नोदनात् शिला लवमात्रणापि न अकम्पत इति तु सत्यम् । किन्तु मासत्रयं यावत् भवता यः नोदनप्रयासः कृतः ततः भवतः हस्तौ, पादौ, स्नायवश्च शक्तियुक्ताः जाताः । भवता दृढकायत प्राप्ता । अतः यत्किमपि कार्यं कर्तुं समर्थः भवान् । मया एतदेव इष्टं, न तु शिलायाः अपसारणम्” इति अवदत् भगवान् ।

निर्धनः इति पदस्य विग्रहः कथम् स्यात् ?

1
नास्ति धनम्
2
निःशेषेण धनम् यस्य सः
3
निर्गतं धनं यस्य सः
4
निरस्तं धनम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: समास परिचयः
Topic: समास
Correct Answer
Option C
Explanation

निर्धनः इति पदस्य विग्रहः "निर्गतं धनं यस्य सः" इति विकल्पः 3 सही है। इस विकल्प को सही ठहराने के लिए निम्नलिखित तर्क प्रस्तुत किए जा सकते हैं: 1. विकल्प 3 का समर्थन: "निर्गतं धनं यस्य सः" का अर्थ है वह व्यक्ति जिसके पास से धन निकल गया है या चला गया है। संस्कृत में 'निर्गत' का अर्थ होता है 'बाहर निकलना' या 'चला जाना'। इस प्रकार, निर्धन व्यक्ति वह होता…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2021
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 2
Easy

Source :

CTET 2021
संकेत : अधोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : वाग्भटः विख्यातः प्राचीनः वैद्यराजः । सः सिन्धप्रान्ते जन्म अलभत । सः आसीत् पञ्चमे…
Chapter :
समास परिचयः
Topic :
समास
Question 3
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
समास परिचयः
Topic :
समास
Question 4
Easy

Source :

CTET 2023
निर्देश : अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत । शान्तितुल्यं तपो नास्ति न सन्तोषात्परं सुखम् । न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः…
Chapter :
समास परिचयः
Topic :
समास