निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः पिपासया आकुलाः भूत्वा यमुनाजलम् अपिबन् । ते मूर्छिताः अभवन् । श्रीकृष्णः तान् मूर्छितान् दृष्ट्वा व्याकुलः अभवत् । वस्तुतः यमुनाजले कालियनागस्य कुण्डम् आसीत् । तेन यमुनाजलं विषज्वालाभिः विषाक्तं जातम् । अनेके खगाः पशवः च तत् जलं पीत्वा मृत्युं प्राप्ताः । वायुः अपि तेन विषयुक्तः अभवत् । वृक्षाः तेन वायुना शुष्काः जाताः । यदा श्रीकृष्णः एतत् सर्वम् अपश्यत् सः एकं वृक्षम् आरोहत् । तस्मात् वृक्षात् सः विषयुक्ते जले अकूर्दत । कालियनागस्य एकाधिकशतं फणाः आसन् । सः तान् प्रसार्य कृष्णं प्रहर्तुम् ऐच्छत् । श्रीकृष्णः तस्य फणान् आरुह्य अनृत्यत् । कालियनागस्य फणाः शनैः शनैः छिन्नाः भिन्नाः अभवन् । मुखात् रक्तं प्रावहत् । सः हस्तौ संयोज्य अवदत् — "भगवन् ! वयं नागाः जन्मतः एव विषयुक्ताः । अयं न मम अपराधः । भवान् एव सर्वप्राणिनां प्रभुः । अनुग्रहं करोतु निग्रहं वा ।" एवं निग्रहात् परम् अनुग्रहं कुर्वन् श्रीकृष्णः अवदत् – रे दुष्ट ! किं न जानासि त्वं यत् तव कारणात् सर्वं जलं विषयुक्तं भवति । इतः कुत्रापि अन्यत्र गच्छ इति । सर्प: ततः पलायितः । एवं च यमुना विषरहिता जाता । ‘पीत्वा’ इत्यस्मिन् शब्दे को धातुः कश्च प्रत्ययः ?
‘पीत्वा’ इत्यस्मिन् शब्दे ‘पा’ धातुः तथा ‘क्त्वा’ प्रत्ययः अस्ति। संस्कृत व्याकरणानुसारं, ‘क्त्वा’ प्रत्ययः क्रियापदस्य धातोः पश्चात् युज्यते, यदा क्रिया समाप्त्यर्थकं भवति। ‘पा’ धातुः पानं (पीना) सूचयति। अतः ‘पा’ धातोः ‘क्त्वा’ प्रत्ययः युज्यते चेद् ‘पीत्वा’ इति रूपं सिद्ध्यति, यत् पानं कृत्वा इत्यर्थं ददाति। अब अन्य विकल्पों का विश्लेषण करते हैं: 1. पी + क्तवतु: यह विकल्प गलत है क्योंकि ‘क्तवतु’ प्रत्यय का प्रयोग कर्तरि प्रयोग में होता है, जैसे ‘पीतवति’ (जिसने…Read More
Source :
Source :
Source :
Source :