Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत –

उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः । सम्पूर्णे राजपरिवारे शोकः आच्छत्रः । एकमात्रं सः एव राज्ञः प्रियतमः उत्तराधिकारी आसीत् । राजवैद्याः तस्य चिकित्सां अकुर्वन् । किन्तु सफलता नैव मिलिता । राजज्योतिषिणा तस्य दीर्घायुष्यं जन्मपत्रतः दृष्ट्वा एकः उपायः कथितः यत् यदि काचित् सती साध्वी स्त्री राजकुमारं दष्ट-स्थाने स्पृशेत् तर्हि अयं स्वस्थः भवेत् । राज्ञः अनेकपल्यः आसन् । राजकुमारस्य जननी अपि तासु एका आसीत् । सा प्रथमं ततः च क्रमशः सर्वाः अपि राज्ञः राजकुमारं स्पृष्टवत्यः । किन्तु राजकुमारस्य चेतना नैव आयाता । अनेन राज्ञीनाम् असतीत्वम् अपि प्रकटितम् अभूत् । पुरस्कार-लोभेन राजस्वस्य अन्याभिः अपि महिलाभिः चेष्टा कृता । किन्तु ताः अपि विफलाः एव अतिष्ठन् । अन्ते तेन एव राजज्योतिषिणा राजा निवेदितः यत् अधुना एव राज्य-सीमा‍य‍म् एका युवतिः स्वस्य पत्या सह प्रविष्टा अस्ति । कदाचित् सा कार्यं साधयेत् । राजा एकाकी एव ताम् आनेतुं निर्गतः । ताम् उपेत्य सः अनुनयं विनयं कृत्वा राजभवनम् आनीतवान् । तस्याः स्पर्शमात्रेण राजकुमारः तत्क्षणम् एव सुप्तोत्थितः इव जागरितः । सर्वेषां हर्षेण मुख-कमलानि विकसितानि अजायन्त । विरक्तः राजा स्वीयं राज्यार्धं ताभ्यां दम्पतिभ्याम्, अवशिष्टं च आत्मजाय समर्प्य तपः तप्तुं वनं प्रस्थितः इति ।

राजकुमारं प्रथमं का स्त्री स्पृष्टवति ?

1
राज्ञः पत्न्यः
2
तस्य जननी
3
राज्यस्य अन्याः महिलाः
4
राज्यसीमास्थिता युवतिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option B
Explanation

राजकुमार को प्रथम बार स्पर्श करने वाली स्त्री उसकी जननी है। गद्यांश में स्पष्ट रूप से कहा गया है कि राजकुमार की जननी ने सबसे पहले उसे स्पर्श किया। जब राजकुमार विषधरेण दष्टः हुआ और उसकी चेतना नहीं आई, तब उसकी जननी ने उसे स्पर्श किया। यह घटना उस समय हुई जब अन्य सभी महिलाएँ भी राजकुमार को स्पर्श करने का प्रयास कर रही थीं, लेकिन उनकी कोशिशें सफल नहीं…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत – उपवने विचरणं कुर्वन् राजकुमारः एकेन विषधरेण दष्टः अभूत् । अचेतनं तं तस्य सहचराः राज्ञे निवेदि‍तवन्तः ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना