अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत – विविधा योगपद्धतयः - भारतीय ज्ञानपरम्परायामधो निर्दिष्टाः योगस्य सप्तपद्धतयः सन्ति । तद्यथा – (1) साङ्ख्ययोगः/ज्ञानयोगः (2) कर्मयोगः (3) भक्तियोगः (4) मन्त्रयोगः (5) लययोगः (6) हठयोगः । एषां सर्वेषां परिचयोऽधो लिखितः - (1) – साङ्ख्ययोगः/ज्ञानयोगः साङ्ख्ययोगस्य यद्वा ज्ञानयोगस्य प्रथमो व्याख्याता महर्षि कपिल आसीत् । गीतायां भगवता कृष्णेन प्रतिपादितं यत् ज्ञानेन सदृशं किमपि पवित्रं नास्ति । यदा जीवात्मा साङ्ख्यदर्शने विवेचितानि पञ्चविंशतिः तत्त्वानि यथार्थतया जानाति तदनन्तरं स मुक्तो भवति । एष एव ज्ञानयोगः/साङ्ख्ययोगोऽस्ति । गीतायां ज्ञानयोगस्य व्याख्या इत्थं प्रतिपादिता अस्ति – यथा अग्नि रैधांसि समिद्धः भस्मसात्कुरुते तद्वदेव ज्ञानग्निः सर्वकर्माणि भस्मसात्कुरुते । (2) – कर्मयोगः कर्मफलेष्वधिकारं विहाय, आत्मानं निमित्तमात्रमङ्गीकृत्य यदा मानवः कर्मसु प्रवृत्तो भवति तदेव “कर्मयोगः” यद्वा “निष्कामकर्मयोगः” इति कथ्यते । कर्मफलाधिकारत्यागस्य नास्त्यमभिप्रायो यत्कर्मणः फलन्तु प्राप्स्यत्येव न तत्किमर्थं वयं कर्म कुर्मः? कारणकार्यसिद्धान्तानुसारं कृतकर्मणः फलन्तु निश्चितमेवास्ति । अस्य अयमेव अभिप्रायो यद्-यदा वयं कृतस्य कर्मणः फलप्राप्त्यर्थमेव कर्मसु प्रवृत्ता भवामस्तदा वयं संशयग्रस्ताः, चिन्तातुराः, भयभीता इत्यादिभ्यो नकारात्मकेभ्यो विचारेभ्यो विचलिता भवामः । कृतस्य कर्मणः फलं प्राप्स्यति न वा ? कदा प्राप्स्यति ? कचिद् बाधा तु नोपस्थिता भविष्यति ? इत्यादिभिः कारणैः कर्मसुन्यूनता भवति । यया शक्त्या, येन चोत्साहेन कर्म करणीयं स्यात्, सा शक्तिः स चोत्साहः फलस्य चिन्तायां नष्टो भवति । परिणामतः कर्मणि न्यूनता जायते । फलं तु कर्मण एव प्राप्यते, यदा कर्मणि न्यूनता जाता तदा फलेऽपि न्यूनता भविष्यति । अतः कर्मफलाकांक्षामथवा कर्मफलाधिकारं विहाय अहर्निशं कर्त्तव्यकर्म करणीयमेव कर्मयोगो भवति । श्रीमद्भगवद्गीतायामस्य व्याख्या अधोलिखिता अस्ति – तव अधिकारः फलेषु नास्ति अपितु कर्मस्वेव तवाधिकारः । त्वं कर्म मा त्यज न च कर्मफलस्य हेतुर्भूः । सफलतायामसफलतायां समो भूत्वा कर्माणि कुरु यतो हि समत्वमेव योगो भवति । अन्यच्य योगस्य परिभाषा अस्ति कुशलतापूर्वकं कर्म अपि योग एव अस्ति । “योगः कर्मसु कौशलम्” (3) – भक्तियोगः मनसावाचाकर्मणा सर्वभावेन आत्मानं परमेश्वरार्पणं कृत्वा अजस्रं कर्त्तव्यकर्मसु निरतमेव भक्तियोगः कथ्यते । भौतिकान् सर्वान् कामान् सर्वथा विहाय श्रद्धान्वितो भूत्वा सर्वकामनीश्वरार्पणं कृत्वा, यस्तस्यैव स्तुतिप्रार्थनोपासनायां समयं यापयति सैव भक्तियोगस्य साधकः । (4) – मन्त्रयोगः ईश्वरस्यमुख्यं नाम ‘ओ३म्’ अथवा गायत्र्यादीनां मन्त्राणां जप काले यदा मन्त्रेषु मन स्थिरं भवति सैव “मन्त्रयोगः” कथ्यते । वाचिकम्-उपांशुः - मानसिकम् – अजपाजपञ्च्येति चतुर्विधा जपविधिः । (5) – लययोगः सर्वदा अजस्ररूपेण ईश्वरस्य चिन्तने मनने-एव यदा मनःसंलग्नम्भवति सैव अवस्था लययोगस्य भवति । ध्यानावस्थायां नादानुसन्धानं कृत्वा मनो नादे-एव स्थिरीकरणमपि लययोगः कथ्यते । (6) – हठयोगः हठ शब्दे हकारो ठकारश्चेत्येतौ शब्दौ योगपरम्परायां पारिभाषिकौ स्तः । हकारस्य अर्थोऽस्ति सूर्यस्वरः [नासिकया दक्षिणरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] ठकारस्य अर्थोऽस्ति चन्द्रस्वरः [नासिकया वामरन्ध्रेण चलन्तौ श्वासप्रश्वासौ] सूर्यचन्द्रस्वरयोः सम्मेलनं कृत्वा सुषम्णानाड्यां प्रवाहकरणमेव हकारठकारयोर्योगो “हठयोग” इति कथ्यते । साङ्ख्ययोगस्य प्रथमो व्याख्याता कोऽस्ति ?
साङ्ख्ययोगस्य प्रथमो व्याख्याता महर्षि कपिलः आसीत्। अतः विकल्प 3 सही उत्तर है। अब हम इस उत्तर को सही ठहराने के लिए विस्तृत व्याख्या करेंगे और अन्य विकल्पों को गलत साबित करेंगे। 1. कपिलः (विकल्प 3): महर्षि कपिल को साङ्ख्ययोग के संस्थापक और प्रथमो व्याख्याता के रूप में मान्यता प्राप्त है। साङ्ख्य दर्शन भारतीय दर्शन की एक महत्वपूर्ण शाखा है, और कपिल मुनि ने इस दर्शन को व्यवस्थित रूप से प्रस्तुत…Read More
Source :
Source :
Source :
Source :