Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा अस्ति । विश्वस्य प्राचीनतमः ग्रन्थः ‘ऋग्वेदः’ अस्यामेव भाषायाम् लिखितः अस्ति । इयम् भाषा सुरवाणी, देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा प्रभृतिभिः नामभिः लोके विख्याता अस्ति । इयम् रम्या, मधुरा, दिव्या, सरला, सरसा च भाषा अस्ति । इयम् भाषा अलौकिकैः गुणैः समृद्धा वर्तते । इयमेव भाषा सर्वासाम् भारतीयभाषाणाम् जननी । सर्वासु एव भाषासु संस्कृतशब्दाः प्राचुर्येण उपलभ्यन्ते । वेदाः, उपनिषदः, पुराणानि, रामायणम्, महाभारतम्–इत्यादयः हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः संस्कृते एव लिखिताः सन्ति । विश्वविख्याता गीता महाभारतस्यैव अंशः अस्ति । महाकवेः कालिदासस्य रघुवंशम् अभिज्ञानशाकुन्तलम् च, भवभूतेः उत्तररामचरितादयः ग्रन्थाः संस्कृतसाहित्ये विशेषरूपेण प्रसिद्धाः सन्ति । एतान् पठित्वा न केवलं भारतीयाः अपितु वैदेशिकाः अपि चकितचकिताः भवन्ति । अस्याः अध्ययनेनैव अस्माकं सर्वेषाम् नैतिकम्, आध्यात्मिकम्, सामाजिकम् च कल्याणम् संभवम् किन्तु दुःखस्य विषयोऽयं यत् अधुना जनाः संस्कृतभाषाम् संस्कृतसाहित्यम् च पठितुम् नैव इच्छन्ति । आधुनि‍के कलियुगे आंग्लभाषायाः एव महत्त्वम् वर्तते । स्वसंस्कृतिम् ज्ञातुमपि संस्कृतस्य अध्ययनम् अनिवार्यं वर्तते । अतः संस्कृतभाषायाः माहात्म्यं गौरवं च विज्ञाय अस्माभिः सर्वैः अस्याः प्रचारे प्रसारे च प्रयत्नः करणीयः ।

संस्कृतभाषा कीदृशी न वर्तते ?

1
परुषा
2
सरला
3
दिव्या
4
रम्या
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: सर्वनाम एवं विशेषणम्
Topic: विशेषणम्
Correct Answer
Option A
Explanation

संस्कृत भाषा के बारे में दिए गए गद्यांश में यह स्पष्ट किया गया है कि संस्कृत एक मधुर, दिव्य, रम्य और सरल भाषा है। गद्यांश में संस्कृत के गुणों का वर्णन करते हुए इसे सुरवाणी, देववाणी, और गीर्वाणवाणी जैसे नामों से भी संबोधित किया गया है। विकल्प 1 "परुषा" (कठोर) संस्कृत भाषा के गुणों के विपरीत है। गद्यांश में संस्कृत को एक रम्य और मधुर भाषा के रूप में प्रस्तुत…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 2
Easy

Source :

CTET 2024
निम्नलिखितानि पद्यानि पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - खलः सर्षपमात्राणि परच्छितद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ 1 ॥ सर्पदुर्जनयोर्मध्ये वरं…
Chapter :
सर्वनाम एवं विशेषणम्
Topic :
विशेषणम्
Question 3
Easy

Source :

CTET 2024
अधोलिखितान् श्लोकान् पठित्वा तदाधारितप्रश्नानां (100-105) विकल्पात्मकोत्तरेभ्यः उत्तरं चित्वा लिखत । गुणवत्तरपात्रेण छाद्यन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥ (1) ना भक्ष्यं भक्षयेत्प्राज्ञः प्राणैः…
Chapter :
कारक एवं विभक्ति
Topic :
कारक
Question 4
Easy

Source :

CTET 2019
संकेत : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत : पावनसलिला नर्मदा अस्माकं प्रदेशस्य जीवनदायिनी सरित् अस्ति । एषा एव रेवा इति नाम्नापि…
Chapter :
कारक एवं विभक्ति
Topic :
विभक्ति
Sanskrit bhasha kidrishi na vartate - CTET Paper 2 | Clear Cutoff