Question
Easy

निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत ।

एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः पिपासया आकुलाः भूत्वा यमुनाजलम् अपिबन् । ते मूर्छिताः अभवन् । श्रीकृष्णः तान् मूर्छितान् दृष्ट्वा व्याकुलः अभवत् । वस्तुतः यमुनाजले कालियनागस्य कुण्डम् आसीत् । तेन यमुनाजलं विषज्वालाभिः विषाक्तं जातम् । अनेके खगाः पशवः च तत् जलं पीत्वा मृत्युं प्राप्ताः । वायुः अपि तेन विषयुक्तः अभवत् । वृक्षाः तेन वायुना शुष्काः जाताः । यदा श्रीकृष्णः एतत् सर्वम् अपश्यत् सः एकं वृक्षम् आरोहत् । तस्मात् वृक्षात् सः विषयुक्ते जले अकूर्दत । कालियनागस्य एकाधिकशतं फणाः आसन् । सः तान् प्रसार्य कृष्णं प्रहर्तुम् ऐच्छत् । श्रीकृष्णः तस्य फणान् आरुह्य अनृत्यत् । कालियनागस्य फणाः शनैः शनैः छिन्नाः भिन्नाः अभवन् । मुखात् रक्तं प्रावहत् । सः हस्तौ संयोज्य अवदत् — "भगवन् ! वयं नागाः जन्मतः एव विषयुक्ताः । अयं न मम अपराधः । भवान् एव सर्वप्राणिनां प्रभुः । अनुग्रहं करोतु निग्रहं वा ।" एवं निग्रहात् परम् अनुग्रहं कुर्वन् श्रीकृष्णः अवदत् – रे दुष्ट ! किं न जानासि त्वं यत् तव कारणात् सर्वं जलं विषयुक्तं भवति । इतः कुत्रापि अन्यत्र गच्छ इति । सर्प: ततः पलायितः । एवं च यमुना विषरहिता जाता ।

यमुनाजलं के अपिबन् ?

1
पक्षिणः
2
गावः
3
श्रीकृष्णस्य वत्साः
4
गोपाः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option D
Explanation

गद्यांश के अनुसार, जब श्रीकृष्ण यमुनातट पर आए, तो उनके साथ गोप भी आए। गोप प्यास से व्याकुल थे और उन्होंने यमुनाजल पिया। इस कारण से, वे मूर्छित हो गए। इस विवरण से स्पष्ट होता है कि यमुनाजल गोपों ने पिया था, इसलिए विकल्प 4 सही उत्तर है। अब अन्य विकल्पों की चर्चा करते हैं: 1. पक्षिणः: गद्यांश में उल्लेख है कि कई पक्षी और पशु यमुनाजल पीकर मृत्यु को…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2023
Question 1
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Yamunajalam ke apiban - CTET Paper 1 | Clear Cutoff