Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - यदा कश्चिच्चित्तवृत्तीनवरुध्य समाधिस्थो भूत्वा परमात्मनः साक्षात्करोति, सा समाध्यवस्था योग उच्यते। कठोपनिषदनुसारं यदा पञ्चज्ञानेंद्रियैः सहितमन्तःकरणस्यांखिलमपि क्रियाकलापमवरुध्यते सा शान्तावस्था 'योगः' इति कथ्यते। श्रीमद्भगवद्गीतायां योगस्य व्यावहारिकं पक्षमुद्घाटयान् प्रतिपादिमस्ति यत्-कर्मसु कौशलं योगो भवति यद्वा जीवनयात्रायाम्मानसिकोद्वेगजनकेष्वाकस्मिकरूपेण उपस्थितेषु सुखदुःखावेगावसादात्मकेषु झंझावातेष्वविचलितरूपेण समत्वस्थितिर्योग उच्यते। अनेन प्रकारेण योगस्य उद्देश्यद्वयमस्तः - पारमार्थिको व्यवहारिकश्चेति। यदा मानव इन्द्रियाणि नियम्य आत्मनः परमात्मननश्च साक्षात्करोति तदा स दुःखत्रयाद्विमुच्य पूर्णानन्दावस्थायां वर्तमानो मोक्षं प्राप्नोति। एतत्पारमार्थिकमुद्देश्यमस्ति योगस्य। द्वितीयंच व्यवहारिकमुद्देश्यमस्ति - यदा मानवो योगाभ्यासेन जितेन्द्रियत्यमप्नोति तदा स सुखदुःखादिभिर्द्वन्द्वैरभिहन्यमानोऽपि समावस्थायां वर्तमानः फलाकाङ्क्षाधिकारचिन्तारहितः स्वकर्त्तव्यकर्मसु व्यापृतो भवति। एवम्प्रकारेण योग आध्यात्मिकमनुशासनमस्ति। योगाभ्यासेन आत्मना सह अन्तःकरणचतुष्टयसमहितं शरीरस्य सामञ्जस्य जायते। योगाभ्यासेन व्यक्तिगतंचेतनायाः सामञ्जस्यं सार्वभौमिकचेतनया सहभवति। एषा समञ्जस्य अवस्था एव मुक्तिः, मोक्षः, कैवल्यं, निर्वाणमित्यादिभिर्विविधाभिरुपाधिभिर्व्यवह्रियते। समकालीना अनुसंधातारः प्रमाणयन्ति यद्योगो न केवलं शारीरिकं सौष्ठमेव सम्पादयति, अपितु विविधानि दुःसाध्यानि शारीरिकमानसिक रोगाणि निराकृत्य, रोगप्रतिरोधकक्षमताश्चर्यजनकरूपेणसंवर्ध्य महदुपकरोति मानवजातेः। योगशब्दस्य व्युत्पत्तिः - पाणिनीय धातुपाठानुसारं 'युज्' धातुना सह 'घञ्' प्रत्यये सति 'योगः' शब्दोनिष्पद्यते। 'युज्' इति धातुस्त्रिष्वर्थेषु विद्यते पाणिनीयधातुपाठे - 1- "युज् समाधौ", 2- "युजिर्योगे", 3-युज् संयमनेति च। योगदर्शनसंदर्भे समाध्यअर्थकयुज् धातुना 'योगः' शब्दो निष्पन्नो भविष्यति। अस्मिन् विषये योगदर्शनस्य प्रथमो भाष्यकारो महर्षि व्यासः प्रमाणम्। स योगशब्दस्यार्थः समाधिः करोति। तद्यथा "योगः समाधिः स च सार्वभौमचित्तस्यधर्म:"। परमधुना मनीषिणो "युजिर्योगो", "युज् संयमने" इत्येताभ्यां धातुभ्यामपि योगशब्दस्य निष्पत्तिम् स्वीकुर्वन्ति। अधस्तनेषु मोक्षशब्दस्य कश्शब्दः पर्यायवाचको नास्ति ?

1
निर्वाणम्
2
परमानन्दः
3
कैवल्यम्
4
मुक्तिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P1
Chapter: अर्थ विज्ञान
Topic: पर्यायवाची & विपरीतार्थक
Correct Answer
Option B
Explanation

मोक्ष शब्द का अर्थ है बंधनों से मुक्ति या आत्मा की परम स्वतंत्रता। इस संदर्भ में, मोक्ष के पर्यायवाची शब्दों की पहचान करना आवश्यक है। 1. निर्वाणम्: यह शब्द बौद्ध और जैन धर्म में मोक्ष के लिए प्रयुक्त होता है। इसका अर्थ है इच्छाओं और दुखों से मुक्ति। इसलिए, निर्वाणम् मोक्ष का पर्यायवाची है। 2. परमानन्दः: यह शब्द अत्यधिक आनंद या परम सुख को दर्शाता है। हालांकि मोक्ष की अवस्था…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

अर्थ विज्ञान
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषुः उचिततमम् उत्तरं चिनुत । नर्मदातीरे एकः वृक्षः आसीत् । तत्र स्वपरिश्रमेण निर्मितेषु नीडेषु खगाः सुखेन वसन्ति स्म ।…
Chapter :
अर्थ विज्ञान
Topic :
पर्यायवाची & विपरीतार्थक
Question 2
Easy

Source :

अर्थ विज्ञान
निम्नलिखित गद्यांश को पढ़कर पूछे गए प्रश्नों के उत्तर के लिए सबसे उपयुक्त विकल्प का चयन कीजिए । स्वातंत्र्योत्तर भारत की सबसे बड़ी ट्रेजेडी यह…
Chapter :
अर्थ विज्ञान
Topic :
पर्यायवाची & विपरीतार्थक
Question 3
Easy

Source :

अर्थ विज्ञान
निम्नलिखित गद्यांश को पढ़कर पूछे गए प्रश्न के सही/सर्वाधिक उपयुक्त विकल्प का चयन कीजिए । इस संसार में सब कुछ अस्थायी है । पाप और…
Chapter :
अर्थ विज्ञान
Topic :
पर्यायवाची & विपरीतार्थक
Question 4
Easy

Source :

अर्थ विज्ञान
अधोलिखितं गद्यांशं पठित्वा तदाधारित प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत। अस्ति कस्मिश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेह कोटिमाश्रिते, नित्यमेव सरस्तीरमासाद्य…
Chapter :
अर्थ विज्ञान
Topic :
पर्यायवाची & विपरीतार्थक