Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत ।

एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि छिन्दति स्म । काष्ठानि छित्त्वा तानि काष्ठानि नगरे विक्रीय सः स्वजीविकोपार्जनं करोति स्म । एवं सः सुखेन जीवनं नयति स्म । वने वृक्षाणां समीपे एव एका नदी प्रवहति स्म । एकस्मिन् दिने यदा सत्यप्रियः कुठारेण काष्ठानि छिन्दति स्म, तस्य हस्तात् भ्रष्टः कुठारः जले अपतत् । कुठारेण बिना सः काष्ठानि छेत्तुम् असमर्थः अभवत् । एवं सः उच्चैः विलापं कर्तुमारभत । तस्य क्रन्दनं श्रुत्वा वरुणदेवः नद्याः बहिर् आगत्य तमपृच्छत् - “भद्र ! कस्मात् रोदिषि ?” ततः सत्यप्रियः सर्वं वृत्तान्तं तस्मै निवेदितवान् । वरुणदेवः तस्य परीक्षां कर्तुम् ऐच्छत् । अतः सः जले निमज्जितवान् । शीघ्रमेव हस्ते सुवर्णकुठारम् आनीय सः बहिरागच्छत् सत्यप्रियम् अपृच्छत् च – “किमेषः तव कुठारः ? गृह्यताम् ।” सः पुनः उच्चैः रोदितुमारभत अवदत् च – “नास्ति एषः मम । अहन्तु स्वकीयमेव कुठारम् इच्छामि ।” ततः वरुणदेवः पुनः जले निमज्जितवान् । अधुना सः रजतकुठारेण साकं बहिरागच्छत् । तं प्रदर्श्य सः पूर्ववत् अपृच्छत् – “अयमस्ति तव कुठारः, गृह्यताम ।” किन्तु सत्यप्रियः सत्यवादी आसीत् । सः शीघ्रम् अवदत् – “अयमपि मम कुठारः नास्ति ।” एतदाकर्ण्य पुनरपि वरुणदेवः जले निमज्जितः । अधुना सः लौहकुठारेण सह बहिर् आगत्य तं काष्ठिकमपृच्छत् – “किमेषः तव कुठारः ?” हर्षितः सत्यप्रियः झटिति उवाच – “आम्, आम् । अयमेवास्ति मम कुठारः प्रभो ।” वरुणदेवस्य चरणौ स्पृष्ट्वा, स्वकुठारं गृहीत्वा च सः काष्ठानि छेत्तुम् अचलत् । तस्य सत्यनिष्ठां दृष्ट्वा वरुणदेवः अतीव प्रसन्न्ऽभवत् अतस्तेन देवेन त्रयः एव कुठाराः तस्मै काष्ठिकाय प्रदत्ता । एवमुचितं कथ्यते - सत्यमेव जयते ।

बहिरागच्छत् – इत्यस्मिन पदे कः सन्धिः वर्तते ?

1
विसर्गसन्धिः
2
वृद्धिसन्धिः
3
गुणसन्धिः
4
अयादिसन्धिः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: सन्धि विचारः
Topic: सन्धि
Correct Answer
Option A
Explanation

संधि के प्रकारों में से एक "विसर्गसंधिः" है, जो तब होता है जब विसर्ग (ः) के बाद स्वर या व्यंजन आता है और उनके मेल से एक नया रूप बनता है। प्रश्न में दिए गए पद "बहिरागच्छत्" में "बहि:" और "आगच्छत्" का मेल है। यहाँ "बहि:" का अंत विसर्ग (ः) से होता है और इसके बाद "आगच्छत्" का स्वर 'आ' आता है। विसर्ग और स्वर के मेल से विसर्गसंधि बनती…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2024
Question 1
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म । कालेन तस्याः सन्ततिः जाता । एकदा…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 2
Easy

Source :

CTET 2024
अधोलिखितान् पद्यान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। उद्योगो नास्ति दारिद्र्यं, जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरिते भयम् ॥ किं कुलेन विशालेन…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 3
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानानाम् उत्तराणि यथोचितं विकल्पं चित्वा देयानि - संस्कृतभाषा भारतवर्षस्य संस्कारभाषा। भारते संस्कृत-भाषायाः प्रतिदिनं विविधसंस्कारकार्येषु प्रयोगः भवति। एतस्याः अनेकासु विशेषतासु इयम् अन्यतमा विशेषता…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Question 4
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य…
Chapter :
सन्धि विचारः
Topic :
सन्धि
Bahiragacchat itasmin pade kah sandhih v - CTET Paper 1 | Clear Cutoff