Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत ।

एषः समुद्रतटः । अत्र जनाः पर्यटनाय आगच्छन्ति । केचन तरङ्गैः क्रीडन्ति । केचन च नौकाभिः जलविहारं कुर्वन्ति । तेषु केचन कन्दुकेन क्रीडन्ति । बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति । मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति । एषा क्रीडा प्रचलति एव । समुद्रतटाः न केवलं पर्यटनस्थानानि । अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति । अस्माकं देशे बहवः समुद्रतटाः सन्ति । एतेषु मुम्बई-गोवा-कोच्चि-कन्याकुमारी-विशाखापत्तनम्-पुरीतटाः अतीव प्रसिद्धाः सन्ति । गोवातटः विदेशिपर्यटकेभ्यः समधिकं रोचते । विशाखापत्तनम्-तटः वैदेशिकव्यापाराय प्रसिद्धः । कोच्चितटः नारिकेलफलेभ्यः ज्ञायते । मुम्बईनगर्यस्य जुहूतटे सर्वे जनाः स्वैरं विहरन्ति । चेन्नईनगरस्य मेरीनातटः देशस्य सागरतटेषु दीर्घतमः । भारतस्य तिसृषु दिशासु समुद्रतटाः सन्ति । अस्माद् एव कारणात् भारतदेशः प्रायद्वीपः इति कथ्यते । पूर्वदिशायां बङ्गोपसागरः दक्षिणदिशायां हिन्दमहासागरः पश्चिमदिशायां च अरबसागरः अस्ति । एतेषां त्रयाणाम् अपि सागराणां सङ्गमः कन्याकुमारीतटे भवति । अत्र पूर्णिमायां चन्द्रोदयः सूर्यास्तं च युगपदेव द्रष्टुं शक्यते ।

भारते त्रयाणां सागराणां सङ्गमः कुत्र भवति ?

1
हिमालयपर्वते
2
गङ्गायाःतीरे
3
कन्याकुमारी-तटे
4
गुजरातप्रान्ते
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 1
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option C
Explanation

भारते त्रयाणां सागराणां सङ्गमः कन्याकुमारी-तटे भवति। यह विकल्प 3 को सही उत्तर बनाता है। अब हम इस उत्तर को सही ठहराने के लिए विस्तृत व्याख्या करेंगे और अन्य विकल्पों को गलत साबित करेंगे। 1. कन्याकुमारी-तटे (विकल्प 3): कन्याकुमारी भारत के दक्षिणतम बिंदु पर स्थित है, जहाँ बंगाल की खाड़ी, हिंद महासागर और अरब सागर का संगम होता है। यह स्थान अपनी प्राकृतिक सुंदरता और अद्वितीय भौगोलिक स्थिति के लिए प्रसिद्ध…Read More

Similar Questions from CTET Exam - Paper 1 - Year 2024
Question 1
Easy

Source :

CTET 2024
अशोलिखित गद्यांश पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत। परोषामुपकारः परोपकारः कथ्यते । य: मानवः स्वार्थं विना परोषामुपकारं करोति, सः परोपकारीति कथ्यते। तस्य तच्चकार्यं परोपकार इति…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चित्वा लिखत । एकस्मिन् ग्रामे सत्यप्रियः नामकः एकः काष्ठिकः वसति स्म । सः प्रत्यहं वनं गत्वा कुठारेण काष्ठानि…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2024
निम्नलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि विकल्पेभ्यः चित्वा दीयन्ताम् । एकस्मिन् अरण्ये कश्चन सिंहः प्रतिवसति स्म । एकदा सः सुप्तः आसीत् । तदा एकः मूषकः तस्य…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना