Question
Easy

निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत –

भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति । अतः एव ते भारतं परित्यज्य अमेरिकादिदेशेषु स्थातुकामाः भवन्ति । एवं माननेन ते स्वं प्रगतं मन्यन्ते । इमे भारतीयाः तुच्छाः मलिनाः असभ्याः अप्रगताः कूपमण्डूकबुद्धयः च सन्ति इति अन्ये विदेशीयाः मन्येरन् चेत् ते क्षन्तव्याः स्युः । परं भारतीयाः एव स्वदेशं निन्देयुः चेत् ते कथं क्षमार्हाः भवेयुः ? अस्ति काचित् पोलण्डवास्तव्या करोलिनाख्या महिला । भारतीयेन अनुरागगोस्वामिना सा उदूढा । अतः अधुना सा स्वम् ‘करोलिनागोस्वामी’ इति परिचाययति । सा भारतम् अधिकृत्य इत्थम् अभिदधाति – “भारतस्य जनजीवनपद्धतिं वीक्ष्य अहं भारते अतीव स्निह्यामि । विश्वस्य सर्वासां समस्यानां समाधानं भारतात् प्राप्तुं शक्यते इत्यत्र अहं विश्वसिमि । एवं सत्यपि भारतं स्वं परिचाययितुं कथं न शक्तम् ? कथं न अन्ये देशाः भारते रुचिं वहन्ति ? मनागपि उपद्रवम् अकुर्वाणाः शान्ताः इमे भारतीयाः सर्वस्मिन् अपि जगति शिक्षणे वाणिज्ये च कौशलेन व्याप्तिं गताः सन्ति चेदपि विदेशीयेषु भारतम् अधिकृत्य कथं विप्रतिपत्तिः अस्ति ?” “अधुनाऽपि अहं यदा यदा युरोपादिदेशेषु प्रवासं करोमि तदा तदा ते भारते निवसन्तीं मां समुपलक्ष्य आश्चर्यं व्यञ्जयन्तः वदन्ति – “करोलिने ! इतोऽपि किं त्वं भारते निवससि ! मलिनैः असभ्यैः तैः भारतीयैः सह निवसन्ती त्वं मनागपि किं न उद्विग्ना ? अहो ते सहिष्णुता ! तत्र तव का सुरक्षा ? इतोऽपि त्वयि बालात्कारः किं न जातः ?” इत्थं ब्रुवाणैः तैः विदेशीयैः कदापि भारतं दृष्टमेव न, केवलं ते युरोपीयलेखकैः लिखितं वृत्तपत्रादिषु प्रकाशितं च पठित्वा इत्थम् अभिप्रयन्ति । बहुधा ते एवं मन्यन्ते यत् भारते कापि सभ्यता संस्कृतिः वा नास्ति एव, केवलं तत्र असभ्यजनानां साम्राज्यं वरीवर्तते इति । बाढम् उद्वेजिता अहम् एतस्य श्रवणात् । मया युरोपदेशाः दृष्टाः । अमेरिकादेशोऽपि दृष्टः । भारतस्य वैशाल्यं वीक्ष्य अहम् आश्चर्यमग्ना अस्मि । युरोपस्य ये देशाः सन्ति पोलण्डादयः ते भारतस्य राज्य-तुल्यपरिमाणाः एव । अतः भारते वैविध्यमस्ति । मया प्रतिज्ञातम् अस्ति यत् भारतविषयिणीम् इमां विप्रतिपत्तिं निराकर्तुं जगते भारतस्य सम्यक् परिचयः देयः इति ।

यूरोपदेशान् आमेरिकादेशं च दृष्ट्वा पुनः भारतस्य वैशाल्यं वीक्ष्य करोलिनायाः मनसि किम् उद्भूतम् ?

1
आश्चर्यम्
2
खेदम्
3
हर्षम्
4
नैराश्यम्
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: शुद्धि विचारः
Topic: वाक्य रचना
Correct Answer
Option A
Explanation

करोलिना ने भारत के बारे में जो विचार व्यक्त किए हैं, उनमें उनके मन में भारत की विविधता और विशालता को देखकर जो आश्चर्य उत्पन्न हुआ है, वह स्पष्ट है। उन्होंने यह बताया है कि जब वे यूरोप और अमेरिका में भारत की तुलना करती हैं, तो उन्हें भारत की संस्कृति और सभ्यता की गहराई का एहसास होता है। उनके अनुसार, भारत की जनजीवन पद्धति और वहाँ की समस्याओं का…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2021
Question 1
Easy

Source :

CTET 2019
अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चित्वा लिखत – भारतदेशस्य उत्तरस्यां दिशि हिमालयो नाम पर्वतरा‍जः वर्तते । अस्य तुङ्गानि शिखराणि सर्वदा हिमेनाच्छादितानि भवन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 2
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 3
Easy

Source :

CTET 2021
निर्देश : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चिनुत – भवन्ति बहवः भारतीयाः अपि तादृशाः, ये भारतं सततं निन्दन्ति, भारते लब्धजन्मानं स्वमपि निन्दन्ति ।…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना
Question 4
Easy

Source :

CTET 2023
निर्देशः : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तरं चिनुत । एकदा षड्वर्षीयः श्रीकृष्णः वृन्दावने यमुनातटम् आगच्छत् । गोपाः अपि तेन सह आगच्छन् । गोपाः…
Chapter :
शुद्धि विचारः
Topic :
वाक्य रचना