Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम । अन्तर्जालस्य प्रयोगं विना एतन्न सम्भवति । अद्यत्वे अन्तर्जालस्य कृपया 'गूगल-फेसबुक-व्हाट्सएप्' इत्यादीनि अनेकानि उपकरणानि उपलभ्यानि सन्ति । अधुना तु एतानि सर्वाणि उपकरणानि चल-दूरभाषयन्त्रेऽपि विद्यमानानि सन्ति । गूगलादि उपकरणानां प्रयोगेन वयं कस्मिन्नपि विषये सर्वं ज्ञातुं शक्नुमः । अस्मिन् शब्दकोशानां, नवीन-शोध-कार्याणां सूचनानां च भण्डारः वर्तते । अन्तर्जालस्य सहायतया वयं स्थानात् स्थानं धनान्तरणं कुर्याम । समाचाराणां सन्देशानां च आदानं प्रदानं च कुर्मः । गृहादेव कार्यालयस्य कार्याणि सम्पादयामः । विपणिं गन्तुं विना वस्तूनि क्रीणामः विक्रीणामः च । अद्यत्वे तु एतादृशी स्थितिरस्ति यत् अन्तर्जालस्य उपयोगं विना वयं किमपि कार्यं कर्तुं सक्षमाः न स्मः । कालान्तरे निःसंशयः वयं सर्वे अस्मिन्नेव निर्भराः भविष्यामः । एतस्य ज्ञानं विना गतिर्न भविष्यति । परन्तु एतेषां उपकरणानां प्रयोगेण वयं निष्क्रियाः भवामः । अल्पमपि ज्ञानाय वयं कदापि स्वबुद्धेः प्रयोगः न कुर्मः, अपितु गूगलशरणं गच्छामः । परिवारजनैः सह अपि फेसबुक व्हाट्सएप् च इत्याभ्यां माध्यमाभ्यां वार्तालापं कुर्मः । परस्पर-सम्बन्धानाम् अद्य तु किमपि महत्त्वं नास्ति । एतेषां उपकरणानां सततप्रयोगेण नेत्रदोषाः जायन्ते, पृष्ठे पीडा भवति, स्मृतेः ह्रासः दृश्यते, कार्येषु एकाग्रता नश्यति, सम्प्रेषणक्षमतायाः विकासः अवरुध्यते आत्मसम्मानं च क्षरति । यथा अन्येषां वस्तूनां प्रयोगेण लाभाः हानयश्च भवन्ति, तथैव सामाजिक-सञ्चार-माध्यमस्य प्रयोगेण अपि भवन्ति । अतएव अस्माभिः अस्य सदुपयोगाः ग्रहणीयाः दुरुपयोगः च हातव्याः । ‘गूगल-फेसबुक’ इत्यादीनि उपकरणानि कस्मिन् उपलब्धानि भवन्ति ?

1
उद्याने
2
चिकित्सालये
3
चल-दूरभाषयन्त्रे
4
क्षेत्रे
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: CTET_P2
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option C
Explanation

गद्यांश में यह स्पष्ट रूप से उल्लेख किया गया है कि 'गूगल-फेसबुक-व्हाट्सएप्' इत्यादि उपकरण चल-दूरभाषयन्त्रे (मोबाइल फोन) पर उपलब्ध हैं। यह आधुनिक युग की विशेषता है कि ये सभी उपकरण मोबाइल फोन पर आसानी से उपलब्ध होते हैं और इन्हें कहीं भी और कभी भी उपयोग किया जा सकता है। अब अन्य विकल्पों की बात करें: 1. उद्याने: उद्यान एक ऐसा स्थान है जहाँ लोग आमतौर पर प्रकृति का आनंद…Read More

Similar Questions from REET Exam - Paper 1 - Year 2018
Question 1
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । उच्यते खलु 'शरीरमाद्यं खलु धर्मसाधनम्' । सत्यमिदम् । विना शरीर-स्वास्थ्यं किमपि शुभं कर्म न भवितुमर्हति ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 4
Easy

Source :

वाक्यप्रयोग
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग