Question
Easy

अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत ।

प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म । तदैव सः व्याधेन विद्धम् एकं क्रौञ्चमपश्यत् । तस्य वियोगेन क्रौञ्ची उच्चैः अरुदत् । तस्याः रोदनं श्रुत्वा ऋषिः द्रवीभूतः अभवत् । तस्य मुखात् अयं श्लोकः सहसा एव निर्गतः - “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।” अयं श्लोकः लौकिकसंस्कृतसाहित्यस्य प्रथमा रचना अस्ति । ऋषेः वाणीं श्रुत्वा ब्रह्मा स्वयमेव तत्र उपस्थितः अभवत् ऋषिं च रामचरितं लेखितुं प्रेरितवान् । ब्रह्मणः आदेशानुसारं महर्षिणा वाल्मीकिना श्लोकबद्धा रामायणी कथा लिखिता । संस्कृतसाहित्ये रामायणं नाम महाकाव्यम् आदिकाव्यं मन्यते ऋषिश्च आदिकविः । रामायणम् एकमुपजीव्यं काव्यमस्ति । अस्य कथाः गृहीत्वा अनेकानि काव्यानि महाकाव्यानि नाटकानि च रचितानि । अस्मिन् काव्ये सर्वत्र स्वाभाविकता वर्तते । प्रकृतिवर्णने तु महर्षिः वाल्मीकिः अप्रतिम एव । अस्य पात्रसृष्टिः सजीवा व्यक्तित्वयुक्ता च विद्यते । सीतायाः चरितं भारतीयनारीचरितादर्शस्य प्रतीकमस्ति । मातृप्रेम्णः यादृशी भावना अत्र दरीदृश्यते न सा प्राप्यते अन्यत्र कुत्रापि । आदर्शः आज्ञापालकः धर्मरक्षकः रामसदृशः सुतः, भरतलक्ष्मणशत्रुघ्नसदृशाः भ्रातरः, दशरथतुल्यः पिता, कौशल्यासुमित्रातुल्ये जनन्यौ, सीतासदृशीसाध्वी पत्नी, हनुमत्सदृशः सेवकः, सुग्रीवतुल्यः सुहृत्, विभीषणसदृशः भक्तः च अन्यत्र कुत्रापि विश्वसाहित्ये नैव दृश्यन्ते । सीता मातृरूपेण सम्मान्यते श्रीरामश्च भगवद्रूपेण । मानवजीवनस्य अमूल्यानि तत्त्वानि अत्र वर्णितानि सन्ति ।

क्रौञ्ची कस्य वियोगेन उच्चैः अरुदत् ?

1
गृहस्य
2
क्रौञ्चस्य
3
शुकस्य
4
मातुः
Question Details
Time to Solve: 12
Exam: CTET
Level/Paper: Paper 2
Chapter: वाक्यप्रयोग
Topic: वाक्यप्रयोग
Correct Answer
Option B
Explanation

क्रौञ्ची उच्चैः अरुदत् क्रौञ्चस्य वियोगेन। यह जानकारी गद्यांश में स्पष्ट रूप से दी गई है। जब ऋषि वाल्मीकि ने एक क्रौञ्च को देखा, जो एक व्याध द्वारा मारा गया था, तब उसकी साथी क्रौञ्ची ने अपने साथी के वियोग में दुखी होकर उच्च स्वर में विलाप किया। इस विलाप का कारण क्रौञ्च का वियोग था, जिससे यह स्पष्ट होता है कि क्रौञ्ची का रोना उसके साथी क्रौञ्च के खोने के…Read More

Similar Questions from CTET Exam - Paper 2 - Year 2024
Question 1
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । सामाजिक-सञ्चार-माध्यमम् आधुनिक-युगस्य एतादृशं माध्यमम् अस्ति, येन वयम् अखिलविश्वे केनापि सह कुत्रापि सम्पर्कं साधयितुं समर्थाः भवेम ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 2
Easy

Source :

CTET 2024
अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमं उत्तरं चिनुत । प्राचीनकाले वाल्मीकिः नाम एकः ऋषिः आसीत् । एकदा स्वशिष्यैः सह सः तमसानद्याः तटे विहरति स्म ।…
Chapter :
वाक्यप्रयोग
Topic :
वाक्यप्रयोग
Question 3
Easy

Source :

CTET 2024
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानानां विकल्पात्मकोत्तरेभ्य उचिततमम् उत्तरं चित्वा लिखत - स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं…
Chapter :
वाक्यप्रयोग
Topic :
छन्द
Question 4
Easy

Source :

CTET 2021
अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत – अश्रद्धा परमं पापं, श्रद्धा पापप्रमोचिनी जहाति पापं श्रद्धावान्, सर्पो जीर्णामिव त्वचाम् ॥ (1) दूरेऽपि सज्जनाः…
Chapter :
अलंकार
Topic :
अलंकार